Book Title: Agam Suttani Satikam Part 09 Jivajivabhigam
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
जीवाजीवाभिगमउपाङ्गसूत्रम् ३/वै०-२/३३९
वृ. सम्प्रति कामभोगप्रतिपादनार्थमाह - 'सोहम्मी' त्यादि, सौधर्मेशानयोर्भदन्त ! कल्पयोः कशान् कामभोगान् प्रत्यनुभवन्तः प्रत्येकं वेदयमाना विहरन्ति ?, भगवानाह - गौतम ! इष्टान् शब्दान् इष्टानि रूपाणि इष्टान् गन्धान् इष्टान् रसान् इष्टान् स्पर्शान् प्रत्यनुभवन्तो विहरन्ति, एवं यावद् ग्रैवेयकदेवाः, अनुत्तरोपपातिकसूत्रेषु अनुत्तरानिति वक्तव्यम् ।
मू. (३४०) ठिती सव्वेसिं भाणियव्वा, देवित्ताएवि, अनंतरं चयंति चइत्ता जे जहिं गच्छंति तं भाणियव्वं ॥
४४४
वृ. अधुना स्थितिप्रतिपादनार्थमाह- 'सोहम्मगदेवाण 'मित्यादि, सौधर्म्मकदेवानां भदन्त कियन्तं कालं स्थिति प्रज्ञप्ता ?, भगवानाह - गौतम ! जघन्यत एकं पल्योपममुत्कर्षतो द्वे सागरोपमे, एवमीशाने जघन्यत एकं सातिरेकं पल्योपममुत्कर्षतो द्वे सातिरेके सागरोपमे, सनत्कुमारे जघन्यतो
सागरोपमे उत्कर्षतः सप्त सागरोपमाणि, माहेन्द्रे जघन्यतः सातिरेके द्वे सागरोपमे उत्कर्षतः सातिरेकाणि सप्त सागरोपमाणि, ब्रह्मलोके जघन्यतः सप्त सागरोपमाणि उत्कर्षतो दश सोगर०लान्तके जघन्यतो दशसाग० उत्कर्षतश्चतुर्दश साग० महाशुक्र जघन्यतश्चतुर्दश साग० उत्कर्षतः सप्तदश, सहारे जघन्यतः सप्तदश साग० उत्कर्षतोऽष्टादश, आनतकल्पे जघन्यतोऽष्टादश साग० उत्कर्षत एकोनविंशति, प्राणते जघन्यत एकोनविंशति साग० उत्कर्षतो विंशति, आरणे जघन्यतो विंशति सागरोपमाणिउत्कर्षत एकविंशति अच्युते जघन्यत एकविंशति सागरोपमाणिउत्कर्षतो द्वाविंशतिः,
अधस्तनाधस्तनाधस्तनग्रैवेयकप्रस्तटे जघन्यतो द्वाविंशति साग० उत्कर्षतस्त्रयोविंशति अघस्तनमध्यमग्रैवेयक प्रस्तटे जघन्यतस्त्रयोविंशति साग० उत्कर्षतश्चतुर्विंशति, अधस्तनोपरितनग्रैवेयकप्रस्तटे जघन्यतश्चतुर्विंशति साग० उत्कर्षतः पञ्चविंशति, मध्यमाधस्तनग्रैवेयकप्रस्तटे जघन्यतः पञ्चविंशति साग० उत्कर्षतः षड्विंशति, मध्यममध्य-मग्रैवेयकप्रस्तटे जघन्यतः षडविंशति साग० उत्कर्षतः सप्तविंशति, मध्यमोपरितन-ग्रैवेयकप्रस्तटेजघन्यतः सप्तविंशति साग० उत्कर्षतोऽष्टविंशति, उपरितनाधस्तन-ग्रैवेयकप्रस्तटे जघन्यतोऽष्टाविंशति साग० उत्कर्षत एकोनत्रिंशत्, उपरितनमध्यम- ग्रैवेयकप्रस्तटे जघन्यत एकोनत्रिंशत्साग० उत्कर्षतस्त्रिंशत्, उपरितनोपरितनग्रैवेयकप्रस्तटे जघन्यतस्त्रिंशत्साग० उत्कर्षत एकत्रिंशत् ।
विजयवैजयन्तजयन्तापराजितेषु जघन्यत एकत्रिंशत्सागरोपमाणि उत्कर्षतस्त्रयस्त्रिंशत्, सर्वार्थसिद्धे महाविमानेऽजघन्योत्कर्षतस्त्रियस्त्रशत्सागरोपमाणि ।
सम्प्रत्युद्वर्त्तनामाह-'सोहम्मगदेवाण' मित्यादि, सौर्मकदेवा भदन्त ! अनन्तरं अव्यवधानेन च्यवित्वा कव गच्छन्ति ?, एतदेव व्याचष्टे - कोत्पद्यन्ते ?, किं नैरयिकेषु गच्छन्ति यावद्देवेषु गच्छन्ति ?, भगवानाह - गौतम ! 'नो नेरइएसु उववज्रंति' इत्यादि यथा प्रज्ञापनायां षष्ठे व्युत्क्रन्त्याख्यपदे तथा वक्तव्यं ।
एष च सङ्क्षेपार्थ- बादरपर्याप्तेषु पृथिव्यबवनस्पतिषु स्यार्पतगर्भव्युत्क्रान्तिकतिर्यकपञ्चेन्द्रियमनुष्येषुच सङ्ख्यातवर्षायुष्केषु, एवमीशानदेवा अपि, सनत्कुमारदायः सहस्रारपर्यन्ताः पर्याप्तगर्भव्युत्क्रान्तिकतिर्यकपञ्चेन्द्रियमनुष्येष्वेव सङ्ख्यातवर्षायुष्केषु नै केन्द्रियेष्वपि, आनतादयो यावदनुत्तरोपपातिका न तिर्यक्पञ्चेन्द्रियेष्वपि किन्तु यथोक्तरूपेषु मनुष्येषु ॥
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/28bef86e2c22aaa4a6d8616b3c23940ca297280309bfd6c1bac8e8077fd628db.jpg)
Page Navigation
1 ... 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532