Book Title: Agam Suttani Satikam Part 09 Jivajivabhigam
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
४४८
जीवाजीवाभिगमउपाङ्गसूत्रम् ४/-/३४४ संखेजाइंवासाइं।तेइंदिएणंभंते!० संखेजा राइंदिया। चउरिदिएणं० संखेजामासा। पजत्तपंचिंदिए सागरोवमसयपुहत्तं सातिरेगं।
एगिदियस्सणंभंते! केवतियंकालं अंतरंहोति?, गोयमा! जहन्नेणं अंतोमुहत्तं उक्कोसेणं दो सागरोवमसहस्साई संखेजवासमभहियाई । बेदियस्सणं अंतरं कालओ केवचिरं होति?, गोयमा! जहन्नेणं अंतोमुहत्तंउक्कोसेणंवणस्सइकालो। एवं तेइंदियस्स चउरिदियस्स पंचेंदियस्स, अपजत्तगाणं एवं चेव, पज्जत्तगाणवि एवं चेव॥
वृ. 'तत्थे' त्यादि, तत्र येते एवमुक्तवन्तः-पञ्चविधाः संसारसमापनका जीवाः प्रज्ञप्तास्ते ‘एवं' वक्ष्यमाणप्रकारेणोक्तवन्तः, तमेव प्रकारमाह-तद्यथा-एकेन्द्रिया द्वीन्द्रियास्त्रीन्द्रियाश्चतुरिन्द्रियाः पञ्चेन्द्रियाः,अमीषां पदानांव्याख्यानंप्राग्वत्॥ सेकिंत'मित्यादीनिपञ्चपर्याप्तापर्याप्तसूत्राणि, ‘एगिदियस्सणंभंते! केवइयं कालं ठिई?' इत्यादीनि पञ्चस्थितिसूत्राणिपाठसिद्धानि, अपर्याप्तकविशेषणविशिष्टान्यपि पञ्च स्थितिसूत्राणि पाठसिद्धानि, नवरं जघन्यादन्तर्मुहूर्तदुत्कृष्टमन्तर्मुहूर्तबृहत्तरमवसातव्यं, पर्याप्तविशेषणविशिष्टान्यपिपञ्च स्थितिसूत्राणि सुप्रतीतानि, नवरमुत्कर्षतो द्वाविंशतिवर्षसहस्रादीन्यन्तर्मुहूर्तोनानि, अपर्याप्तककालेनान्तर्मुहूर्तेन हीनत्वात्
सम्प्रति कायस्थितिप्रतिपादनार्थमाह-एगिदिए णं भंते ! एगिदिए'त्ति इत्यादि, जघन्यतोऽन्तर्मुहूर्त, तदनन्तरंमृत्वा द्वीन्द्रियादिषुत्पादात्, उत्कर्षतोऽनन्तंकालं, अनन्तकालमेव निरूपयति-वनस्पतिकालः, वनस्पतिकालस्यैकेन्द्रियत्वात् एकेन्द्रियपदे तस्यापि परिग्रहात्, वनस्पतिकालश्च प्रागेवोक्ताः । द्वित्रिचतुरिन्द्रियसूत्रे सङ्ख्येयं कालं-सङ्खयेयानि वर्षसहस्राणि “विगलिंदियाम वाससहस्सा संखेज्जा" इति वचनात्, पञ्चेन्द्रियसूत्रे सातिरेकं सागरोपमसहस्रं, तच्चनैरयिकति-र्यपञ्चेन्द्रियमनुष्यदेवभवभ्रमणेन वेदितव्यं । एगिदियअपज्जत्तएणंभंते' इत्यादि, जघन्यत उत्कर्षतोऽन्तर्मुहूर्तमपर्याप्तलब्धेरोता- वत्कालप्रमाणत्वात्, एवं शेषाण्यपि चत्वार्पर्याप्तकसूत्राणि भा० एकेन्द्रियपर्याप्तकसूत्रे सङ्खयेयानि वर्षसहस्राणि, एकेन्द्रियस्य हि पृथिवीकायस्योत्कर्षतो द्वात्रिंशतिवर्षसहस्राणि भवस्थिति अपकायस्य सप्त वर्षसहस्राणि तेजस्कायस्यत्री रात्रिन्दिवानि वायुकायस्यत्रीणि वर्षसहस्रणिवनस्पतिकायस्यदशवर्षसहस्राणि, ततो निरन्तरकतिपयपर्याप्तभवसङ्कलनया सङ्ख्येयान्येव वर्षसहस्राणि घटन्त इति।
द्वीन्द्रियपर्याप्तसूत्रेउत्कर्षतः सङ्खयेयानिवर्षाणि, द्वीन्द्रियस्य हिउत्कर्षतोभवस्थितिपरिमाणं द्वादश वर्षाणि न च सर्वेष्वपि भवेषूत्कृष्ट स्थितिस्ततः कतिपयनिरन्तरपर्याप्तभवसङ्कलनयापि सङ्खयेयानि वर्षाण्येव लभ्यन्ते नतु वर्षशतानि वर्षसहस्राणि वा । त्रीन्द्रियपर्याप्तसूत्रे सङ्खयेयानि रात्रिन्दिवानि, तेषां भवस्थितेरुत्कर्षतोऽप्येकोनपञ्चाशद्दिनमानतया कतिपयनिरतन्तरपर्याप्तभवसङ्कलनायामपि सङ्कयेयानां रात्रिन्दिवानामेव लभ्यमानत्वात् । चतुरिन्द्रियपर्याप्तसूत्रे सङ्खयेया मासास्तेषां भवस्थितेरुत्कर्षतः षण्मासप्रमाणतया कतिपयनिरन्तरपर्याप्तभवकालसङ्कलनया सङ्खयेयानां मासानां प्राप्यमानत्वात्। पञ्चेन्द्रियपर्याप्तसूत्रेसागरोपमशतपृथकत्वं सातिरेकं, तच्च पूर्ववत्। 'एगिदियस्सणंभंते! अंतरंकालतोकेवचिरंहोइ?' इतिप्रश्नसूत्रंसुगम, भगवानाह-गौ० जघन्येनान्तर्मुहूर्त, तच्चैकेन्द्रियादुद्ध त्य द्वीन्द्रियादावन्तर्मुहूर्तस्थित्वा भूय एकेन्द्रियत्वेनोत्पद्यमानस्य वेदितव्यं, उत्कर्षतो द्वेसागरोपमसहस्र सङ्कयेयवर्षाभ्यधिके, यावानेव हि त्रसकायस्य कायस्थिति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532