Book Title: Agam Suttani Satikam Part 09 Jivajivabhigam
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 465
________________ ४६२ जीवाजीवाभिगमउपाङ्गसूत्रम् ५/-/३६२ भेदभिन्नत्वादित्थं यथोत्तरमसङ्खयेयगुणत्वं न विरुध्यते, तेभ्यो बादरवायुकायिकापर्याप्तेभ्यो बादरवनस्पतिकायिका जीवाः पर्याप्ता अनन्तगुणाः प्रतिबादरैकैकनिगोदमनन्तानां जीवानां भावात्, तेभ्यः सामान्यतोबादराः पर्याप्ता विशेषाधिकाः, बादरतेजस्कायिकादीनामपिपर्याप्तानां तत्र प्रक्षेपात्, तेभ्योबादरवनस्पतिकायिका अपर्याप्तका असङ्खयेयगुणा एकैकपपर्याप्तबादरवनस्पतिकायिकनिगोदनिश्रयाऽसङ्खयेयानामपर्याप्तबादरवनस्पतिकायिकनिगोदानामुत्पादात्, तेभ्यः सामान्यतो बादरा विशेषाधिकाः बादरपर्याप्ततेजस्कायिकादीनामपर्याप्तानां तत्र प्रक्षेपात् । तदेवं गतानि बादराश्रितानि पञ्चाल्पबहुत्वानि, सम्प्रति सूक्ष्मबादरसमुदायगतानि पञ्चाल्पबहुत्वान्यभिधित्सुराह-एएसि ण'मित्यादि, इहप्रथमंबादरगतमल्पबहुत्वंतत्सूक्ष्मगताल्पबहुत्वपञ्चके यप्रथममल्पबहुत्वं तद्वद्भावनीयं यावत् सूक्ष्मनिगोदचिन्ता, तदनन्तरं बादरवनस्पतिकायिकाअनन्तगुणाः प्रतिबादरनिगोदमनन्तानांजीवानांभावात्, तेभ्यो बादरा विशेषाधिका बादरतेजस्कायिकादीनामपि तत्र प्रक्षेपात्, तेभ्यः सूक्ष्मवनस्पतिकायिका असङ्खयेयगुणाः, बादरनिगोदेभ्यः सूक्ष्मनिगोदानामसङ्खयेयगुणत्वात्, तेभ्य सामान्यतः सूक्ष्मा विशेषाधिकाः सूक्ष्मतेजस्कायिकादीनामपि तत्र प्रक्षेपात् । गतमेकमल्पबहुत्वमिदानीमेतेषामेवापर्याप्तानांद्वितीयमाह-एएसिणमित्यादि,सर्वस्तोका बादरत्रसकायिकाअपर्याप्ताः, ततो बादरतेजस्कायिकबादरवनस्पतिकायिकबादरनिगोदबादरपृथिवीकायिकबादराप्कायिकबादरवायुकायिकाः पर्याप्ताः क्रमेण यथोत्तरमसङ्खयेयगुणाः, अत्र भावना बादरगताल्पबहुत्वपञ्चके यद्व द्वितीयमपर्याप्ताविषयमल्पबहुत्वंतद्वद्भावनीया, ततो बादरवायुकायिकेभ्योऽपर्याप्तेभ्यः सूक्ष्मतेजस्कायिका अपर्याप्ता असङ्खयेयगुणाः, अतिप्रभूतासङ्घयेयलोकाकाशप्रदेशप्रमाणत्वात्, तेभ्यः सूक्ष्मपृथिवीकायिकसूक्ष्माप्कायिकसूक्ष्मवायुकायिकसूक्ष्मनिगोदा यथोत्तरमङ्ख्येयगुणाः, अत्र भावना सूक्ष्माल्पबहुत्ववद्भावनीया, पञ्चके यद्दितीयाल्पबहुत्वंतद्वत्,तेभ्यः सूक्ष्मनिगोदापर्याप्तेभ्यो बादरवनस्पतिकायिका जीवा अपर्याप्ता अनन्तगुणाः, प्रतिबादरैकैकनिगोदमनन्तानां भावात्, तेभ्यः सामान्यतो बादरा अपर्याप्ता विशेषाधिकाः, बादरत्रसकायिकापर्याप्तानामपि तत्र प्रक्षेपात्, तेभ्यः सूक्ष्मवनस्पतिकायिका अपर्याप्ताअसङ्खयेयगुणाः, बादरनिगोदापयप्तिभ्यसूक्ष्मनिगोदापर्याप्तानामसङ्खयेयगुणत्वात्, तेभ्यः सामान्यतः सूक्ष्मा अपर्याप्ता विशेषाधिकः, सूक्ष्मतेजस्कायिकापर्याप्तादीनामपि तत्र प्रक्षेपात्। गतंद्वितीयल्पबहुत्वमिदानीं तेषामेव पर्याप्तानांतृतीयमल्पबहुत्वमाह-“एएसिण'मित्यादि, सर्वस्तोका बादरतेजस्कायिकाः पर्याप्ताः, तेभ्यो बादरत्रसकायिकबादरप्रत्येकवनस्पतिकायिकबादरनिगोदबादरपृथिवीकायिकबादराप्कायिकबादरवायुकायिकाः पर्याप्ता यथोत्तरमसङ्खयेयगुणाः, अत्र भावनाबादरगताल्पबहुत्वपञ्चके यत्त तीयं पर्याप्तविषयमल्पबहुत्वंतद्वत्कर्तव्या, बादरपर्याप्तवायुकायिकेभ्यः सूक्ष्मतेजस्कायिकाः पर्याप्ता असङ्खयेयलोकाकाशप्रदेशप्रमाणास्ततोऽसङ्ख्येयगुणाः, ततः सूक्ष्मपृथिवीकायिकसूक्ष्माप्कायिकसूक्ष्मवायुकायिकाः पर्याप्ताः क्रमेण यथोत्तरं विशेषाधिकाः, ततः सूक्ष्मवायुकायिकेभ्यः पर्याप्तेभ्यः सूक्ष्मनिगोदाः पर्याप्तकाअसङ्खयेयगुणाः, तेषामतिप्रभूततयाप्रतिगोलकंभावात्, तेभ्यो बादरवनस्पतिकायिका जीवाः पर्याप्तका अनन्तगुणाः,प्रतिबादरैकैकनिगोदमनन्तानांभावात्, तेभ्यः सामान्यतो बादराः Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532