________________
४६२
जीवाजीवाभिगमउपाङ्गसूत्रम् ५/-/३६२ भेदभिन्नत्वादित्थं यथोत्तरमसङ्खयेयगुणत्वं न विरुध्यते, तेभ्यो बादरवायुकायिकापर्याप्तेभ्यो बादरवनस्पतिकायिका जीवाः पर्याप्ता अनन्तगुणाः प्रतिबादरैकैकनिगोदमनन्तानां जीवानां भावात्, तेभ्यः सामान्यतोबादराः पर्याप्ता विशेषाधिकाः, बादरतेजस्कायिकादीनामपिपर्याप्तानां तत्र प्रक्षेपात्, तेभ्योबादरवनस्पतिकायिका अपर्याप्तका असङ्खयेयगुणा एकैकपपर्याप्तबादरवनस्पतिकायिकनिगोदनिश्रयाऽसङ्खयेयानामपर्याप्तबादरवनस्पतिकायिकनिगोदानामुत्पादात्, तेभ्यः सामान्यतो बादरा विशेषाधिकाः बादरपर्याप्ततेजस्कायिकादीनामपर्याप्तानां तत्र प्रक्षेपात् ।
तदेवं गतानि बादराश्रितानि पञ्चाल्पबहुत्वानि, सम्प्रति सूक्ष्मबादरसमुदायगतानि पञ्चाल्पबहुत्वान्यभिधित्सुराह-एएसि ण'मित्यादि, इहप्रथमंबादरगतमल्पबहुत्वंतत्सूक्ष्मगताल्पबहुत्वपञ्चके यप्रथममल्पबहुत्वं तद्वद्भावनीयं यावत् सूक्ष्मनिगोदचिन्ता, तदनन्तरं बादरवनस्पतिकायिकाअनन्तगुणाः प्रतिबादरनिगोदमनन्तानांजीवानांभावात्, तेभ्यो बादरा विशेषाधिका बादरतेजस्कायिकादीनामपि तत्र प्रक्षेपात्, तेभ्यः सूक्ष्मवनस्पतिकायिका असङ्खयेयगुणाः, बादरनिगोदेभ्यः सूक्ष्मनिगोदानामसङ्खयेयगुणत्वात्, तेभ्य सामान्यतः सूक्ष्मा विशेषाधिकाः सूक्ष्मतेजस्कायिकादीनामपि तत्र प्रक्षेपात् ।
गतमेकमल्पबहुत्वमिदानीमेतेषामेवापर्याप्तानांद्वितीयमाह-एएसिणमित्यादि,सर्वस्तोका बादरत्रसकायिकाअपर्याप्ताः, ततो बादरतेजस्कायिकबादरवनस्पतिकायिकबादरनिगोदबादरपृथिवीकायिकबादराप्कायिकबादरवायुकायिकाः पर्याप्ताः क्रमेण यथोत्तरमसङ्खयेयगुणाः, अत्र भावना बादरगताल्पबहुत्वपञ्चके यद्व द्वितीयमपर्याप्ताविषयमल्पबहुत्वंतद्वद्भावनीया, ततो बादरवायुकायिकेभ्योऽपर्याप्तेभ्यः सूक्ष्मतेजस्कायिका अपर्याप्ता असङ्खयेयगुणाः, अतिप्रभूतासङ्घयेयलोकाकाशप्रदेशप्रमाणत्वात्, तेभ्यः सूक्ष्मपृथिवीकायिकसूक्ष्माप्कायिकसूक्ष्मवायुकायिकसूक्ष्मनिगोदा यथोत्तरमङ्ख्येयगुणाः, अत्र भावना सूक्ष्माल्पबहुत्ववद्भावनीया, पञ्चके यद्दितीयाल्पबहुत्वंतद्वत्,तेभ्यः सूक्ष्मनिगोदापर्याप्तेभ्यो बादरवनस्पतिकायिका जीवा अपर्याप्ता अनन्तगुणाः, प्रतिबादरैकैकनिगोदमनन्तानां भावात्, तेभ्यः सामान्यतो बादरा अपर्याप्ता विशेषाधिकाः, बादरत्रसकायिकापर्याप्तानामपि तत्र प्रक्षेपात्, तेभ्यः सूक्ष्मवनस्पतिकायिका अपर्याप्ताअसङ्खयेयगुणाः, बादरनिगोदापयप्तिभ्यसूक्ष्मनिगोदापर्याप्तानामसङ्खयेयगुणत्वात्, तेभ्यः सामान्यतः सूक्ष्मा अपर्याप्ता विशेषाधिकः, सूक्ष्मतेजस्कायिकापर्याप्तादीनामपि तत्र प्रक्षेपात्।
गतंद्वितीयल्पबहुत्वमिदानीं तेषामेव पर्याप्तानांतृतीयमल्पबहुत्वमाह-“एएसिण'मित्यादि, सर्वस्तोका बादरतेजस्कायिकाः पर्याप्ताः, तेभ्यो बादरत्रसकायिकबादरप्रत्येकवनस्पतिकायिकबादरनिगोदबादरपृथिवीकायिकबादराप्कायिकबादरवायुकायिकाः पर्याप्ता यथोत्तरमसङ्खयेयगुणाः, अत्र भावनाबादरगताल्पबहुत्वपञ्चके यत्त तीयं पर्याप्तविषयमल्पबहुत्वंतद्वत्कर्तव्या, बादरपर्याप्तवायुकायिकेभ्यः सूक्ष्मतेजस्कायिकाः पर्याप्ता असङ्खयेयलोकाकाशप्रदेशप्रमाणास्ततोऽसङ्ख्येयगुणाः, ततः सूक्ष्मपृथिवीकायिकसूक्ष्माप्कायिकसूक्ष्मवायुकायिकाः पर्याप्ताः क्रमेण यथोत्तरं विशेषाधिकाः, ततः सूक्ष्मवायुकायिकेभ्यः पर्याप्तेभ्यः सूक्ष्मनिगोदाः पर्याप्तकाअसङ्खयेयगुणाः, तेषामतिप्रभूततयाप्रतिगोलकंभावात्, तेभ्यो बादरवनस्पतिकायिका जीवाः पर्याप्तका अनन्तगुणाः,प्रतिबादरैकैकनिगोदमनन्तानांभावात्, तेभ्यः सामान्यतो बादराः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org