SearchBrowseAboutContactDonate
Page Preview
Page 466
Loading...
Download File
Download File
Page Text
________________ प्रतिपत्तिः - ५, ४६३ पर्याप्ता विशेषाधिकाः, बादरतेजस्कायिकादीनामपिपर्याप्तानांतत्र प्रक्षेपात्, तेभ्यः सूक्ष्मवनस्पतिकायिकाः पर्याप्ता असङ्खयेयगुणाः, बादरनिगोदपयप्तिभ्यः सूक्ष्मनिगोदपर्याप्तानामसङ्खयेयगुणत्वात्, तेभ्यः सामान्यतः सूक्ष्माः पर्याप्ता विशेषाधिकाः, सूक्ष्मतेजस्कायिकादीनामपि पर्याप्तानांतत्र प्रक्षेपात्। गतं तृतीयमल्पबहुत्वमिदानीमेतेषामेव सूक्ष्मबादरादीनां प्रत्येकं पर्याप्तापर्याप्तानां पृथक पृथगल्पबहुत्वमाह-'एएसिणं भंते ! सुहुमाणं बायराण य पज्जत्तापज्जत्ताण'मित्यादि, सर्वत्रेयं भावना-सर्वस्तोका बादराः पर्याप्ताः परिमितक्षेत्रवर्त्तित्वात्, तेभ्योबादराअपर्याप्ताअसङ्ख्येयगुणाः, एकैकबादरपर्याप्तनिश्रयऽसङ्खयेयानां बादरापर्याप्तानामुत्पादात्, तेभ्यः सूक्ष्मापर्याप्ताअसङ्खयेयगुणाः, सर्वलोकापन्नतया तेषां क्षेत्रस्यासङ्खयेयगुणात्वात्, तेभ्यः सूक्ष्मपर्याप्तकाः सङ्खयेयगुणाः, चिरकालावस्थायितयातेषां सदैव सङ्खयेयगुणतयाप्राप्यमानत्वात्, सर्वसङ्ख्यया चात्रसप्त सूत्राणि, तद्यथा-प्रथमंसामान्यतः सूक्ष्मबादरपर्याप्तापर्याप्त-विषयं द्वितीयं सूक्ष्मबादर-पृथिवीकायिकपयप्तिापर्याप्तविषयं, तृतीयं सूक्ष्मबादराप्कायिकपर्याप्ता-पर्याप्तविषयं, चतुर्थंसूक्ष्मबादरतेजस्कायिकप पञ्चमं सूक्ष्मबादरवायुकायिक-प० षष्ठं सूक्ष्मबादरवनस्पुतिकायिकपर्याप्ताप०सप्तमं सूक्ष्मबादरनिगोदपर्याप्यापर्याप्तविषयमि। गतंचतुर्थमल्पबहुत्वमिदानीमेतेषामेव सूक्ष्मपृथिवीकायिकादीनां प्रत्येकं पर्याप्तापर्याप्तानां समुदायेन पञ्चममल्पबहुत्वमाह-एएसिणंभंते! सुहुमाणंसुहुमपुढविक्कइयाण'मित्यादि, सर्वस्तोका बादरतेजस्कायिकाः पर्याप्ताः, आवलिकासमयवर्गकतिपयसमयन्यूनैरावलिकासमयैर्गुणितेयावान् समयराशिस्तावप्रमाणत्वात्तेषां, तेभ्यो बादरत्रसकायिकाः पर्यापता असङ्खयेयगुणाः, प्रतरे यावन्त्यमुलासङ्खयेयभागमात्राणिखण्डानितावत्प्रमाणत्वात्तेषां, तेभ्यो बादरत्रसकायिकाअपर्याप्ता असङ्खयेयगुणाः, प्रतेरयावन्त्यङ्गुलासङ्घयेयभागमात्राणि खण्डानि तावत्प्रमाणत्वात्तेषां, ततः प्रत्येकशरीरबादरवनस्पतिकायिकबादरनिगोदबादरपृथिवीकायिकबादराप्कायिकबादरवायुकायिकाः पर्याप्ता यथोत्तरमसङ्खयेयगुणाः, यद्यप्येतेप्रत्येकंप्रतर यावन्त्यङ्गुलासङ्खयेयभागमात्राणि खण्डानि तावप्रमाणास्तथाऽप्यनुलासङ्घयेयभागस्यासङ्खयेयभेदभिन्नत्वादित्थं यथोत्तरमसङ्खयेयगुणत्वमभिधीयमानं यन विरुध्यते, तेभ्यो बादरतेजस्कायिका अपर्याप्तका असङ्खयेयगुणाः, असङ्घयेयलोकाकाशप्रदेशप्रमाणत्वात् । ततः प्रत्येकशरीरबादरवनस्पतिकायिकबादरनिगोदबादरपृथिवीकायिकबादराप्कायिकबादरवायुकायिका अपर्याप्ता यथोत्तरमसङ्खयेयगुणाः, ततो बादरवायुकायिकेभ्योऽपर्याप्तकेभ्यः सूक्ष्मतेजस्कायिका अपर्याप्ता असङ्खयेयगुणाः, ततः सूक्ष्मपृथिवीकायिकसूक्ष्माकायिकसूक्ष्मवायुकायिका अपर्याप्ता यथोत्तरंविशेषाधिकाः, ततः सूक्ष्मतेजस्कायिकाः पर्याप्ताः सङ्खयेयगुणाः, सूक्ष्मेष्वपर्याप्तेभ्यः पर्याप्तानामोघतः सङ्खयेयगुणत्वात्, ततः सूक्ष्मपृथिवीकायिकसूक्ष्माप्कायिकसूक्ष्मवायकायिकाः पर्याप्ता यथोत्तरंविशेषाधिकाः, तेभ्यः सूक्ष्मनिगोदा अपर्याप्तका असङ्खयेयगुणाः, तेषामतिप्राभूत्येन सर्वलोकेषु भावात्, तेभ्यः सूक्ष्मनिगोदा असङ्खयेयगुणाः, सूक्ष्मेष्वपर्याप्तानांसदैवोघतः सङ्घयेयगुणत्वात्, एतेचबादरपर्याप्ततेजस्कायिकादयःपर्याप्तानिगोदपर्यवसानाः षोडश पदार्था यद्यप्यन्यत्राविशेषेणासङ्खयेयलोकाकाशप्रदेशप्रमाणतया संगीयन्ये तथाऽप्यसङ्ख्यातस्यासङ्ख्यातभेदभिन्नत्वादित्थमसङ्खयेयगुणत्वं विशेषाधिकत्वं सङ्ख्येयगुणत्वंच Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003313
Book TitleAgam Suttani Satikam Part 09 Jivajivabhigam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages532
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy