________________
४६४
जीवाजीवाभिगमउपाङ्गसूत्रम् ५/-३६२ प्रतिपाद्यमानं न विरोधभागिति, तेभ्यः पर्याप्तसूक्ष्मनिगोदेभ्यो बादरवनस्तिकायिका अपर्याप्ता अनन्तगुणाः । प्रतिबादरैकैकनिगोदमनन्तानां जीवानां भावात्,
तेभ्यः सामान्यतो बादराः पर्याप्ता विशेषाधिकाः, बादरपर्याप्ततेजस्कायिकादीनामपि ततप्रक्षेपात्, तेभ्योबादरवनस्पतिकायिकाअपर्याप्ताअसङ्खयेयगुणाः, एकैकपर्याप्तनिगोदनिश्रयाऽ सङ्खयेयानांबादरनिगोदापर्याप्तानांमुत्पादात्, तेभ्यःसामान्यतो बादरा अपर्याप्ता विशेषाधिकाः, बादरतेजस्कायिकादीनामप्यपर्याप्तानां तत्र प्रक्षेपात्, तेभ्यः सामान्यतो बादरा विशेषाधिकाः, पर्याप्तानामपि तत्र प्रक्षेपात्, तेभ्यः सूक्ष्म-वनस्पतिकायिका अपर्याप्ता असङ्ख्येयगुणाः, बादरनिगोदेभ्य सूक्ष्मनिगोदानामपर्याप्तानामप्य-सङ्ख्येयगुणत्वात्, ततःसामान्यतः सूक्ष्माअपर्याप्तका विशेषाधिकाः, सूक्ष्मपृथिवीकायिकादीनाम- प्यपर्याप्तानां तत्र प्रक्षेपात्, तेभ्यः सूक्ष्मवनस्पतिकायिकाः पर्याप्ताः सङ्खयेयगुणाः, सूक्ष्मवनस्पति कायिकापर्याप्तेभ्यो हि सूक्ष्मवनस्पतिकायिकाः पर्याप्ताः सङ्ख्येयगुणाः, सूक्ष्मेष्वप्योघतोऽपर्याप्तेभ्यः पर्याप्तानां सङ्ख्येयगुणत्वात् ।
ततः सामान्यतः सूक्ष्मपर्याप्तेभ्योऽपि सङ्खयेयगुणाः, विशेषाधिकत्वस्य सङ्खयेयगुणत्वबाधनायोगात्, तेभ्यः सामान्यतः सूक्ष्माः पर्याप्तका विशेषाधिकाः, पर्याप्तसूक्ष्मपृथिवीकायिकादीनामपि तत्र प्रक्षेपात्, ततः सामान्यतः पर्याप्तापर्याप्तविशेषणरहिताः सूक्ष्मा विशेषाधिकाः, अपर्याप्तानामपि तत्र प्रक्षेपात् ।
इह पूर्वं निगोदाः स्थित्यादिभिश्चिन्तितास्ततो निगोदवक्तव्यतामाह
मू. (३६३) कतिविहाणं भंते ! निओया पन्नत्ता?, गोयमा! दुविहा निओया पन्नत्ता, तंजहा-निओया य निओदजीवाय॥निओयाणं भंते! कतिविहा पन्नत्ता?, गोयमा! दुविहा, पं०, तंजहा-सुहुमनिओया य बायरनिओया य॥ सुहुमनिओयाणं भंते! कतिविहा पन्नत्ता?, गोयमा! दुविहा पन्नत्ता, तंजहा-पज्जत्तगा य अपजत्तगाय।
बायरनिओयाविदुविहा पन्नता, तंजहा-पज्जत्तगाय अपज्जत्तगा य । निओयजीवाणं भंते ! कतिविहा पन्नत्ता?, दुविहा पन्नत्ता-सुहमनिओदजीवा य बायरनिओयजीवा य । सुहुमनिगोदजीवादुविहापं० २०-पजत्तगाय अपज्जत्तगा य। बादरनिगोदजीवादुविहा पन्नत्ता तं०-पजत्तगाय अपज्जत्तगा य॥
वृ. 'कतिविहाण'मित्यादि, कतिभेदाः भदन्त ! निगोदाः प्रज्ञप्ताः? भगवानाह-गौतम! द्विविधा निगोदाः प्रज्ञप्तास्तद्यथा-निगोदाश्च निगोदजीवाश्च, उभयेषामपि निगोदशब्दवाच्यतया प्रसिद्धत्वात्, तत्र निगोदा-जीवाश्रयविशेषाः निगोदजीवा-विभिन्नतैजसकार्मणा जीवा एव॥ अधुना निगोदभेदान् पृच्छति–'निगोयाणं भंते!' इत्यादिप्रश्नसूत्रं सुगम, भगवानाह-गौतम! द्विविधाः प्रज्ञप्तास्तद्यथा-सूक्ष्मनिगोदाश्च बादरनिगोदाश्च, तत्र सूक्ष्मनिगोदाः सर्वलोकापन्नाः बादरनिगोदा मूलकन्दादयः। _ 'सुहुमनिगोयाण'मित्यादि, सूक्ष्मनिगोदा भदन्त ! कतिविधाः प्रज्ञप्ताः?, भगवानाहगौतम! द्विविधाः प्रज्ञप्तास्तद्यथा-पर्याप्ताअपर्याप्ताश्च, एवं बादरनिगोदविषयमपि सूत्रं वक्तव्यं तदेवमुक्ता निगोदाः, अधुना निगोदजीवानधिकृत्य भेदप्रश्नसूत्रमाह-निगोयजीवाणं भंते!' इत्यादि सुगमं, भगवानाह-गौतम ! निगोदजीवा द्विविधाः प्रज्ञप्तास्तद्यथा-सूक्ष्मनिगोदजीवा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org