________________
-
प्रतिपत्तिः - ५,
४६१ अष्टासुपृथिवीषु सर्वेषुविमानभवन-पर्वतादिषुच भावात्, तेभ्योऽसङ्खयेयगुणा बादराफ्कायिकाः, समुद्रेषुजलप्राभूत्यात्स, तेभ्यो बादरतायुकायिकाअसङ्खयेयगुणाः, शुषिरे सर्वत्र वायुसम्भवात्, तेभ्योऽपबादरवनस्पतिकायिकाअनन्तगुणाः, प्रतिबादरनिगोदमनन्तानांजीवानां भवात्, तेभ्यः सामान्यतो बादरा विशेषाधिकाः, बादरत्रसकादिकादीनामपि तत्र प्रक्षेपात्।
गतमेकमौधिकमल्पबहुत्वमिदानीमेतेषामेवपर्याप्तानां द्वितीयमाह-'एएसि णं भंते !' इत्यादि, सर्वंस्तोका बादरत्रसकायिकाअपर्याप्ताः, युक्तिरत्रप्रागुक्तैव, तेभ्यो बादरतेजस्कायका अपर्याप्ता असङ्खयेयगुणाः, असङ्खयेयलोकाकाशप्रमामत्वात्, इत्येवंप्रागुक्तक्रमेणेदमप्यल्पबहुत्वं परिभावनीयम्॥गतंद्वितीयमल्पबहुत्वं, साम्प्रतमेतेषामेव पर्याप्तानांतृतीयमल्पबहुत्वमाह-एएसि ण'मित्यादि, सर्वस्तोका बादरतेजस्कायिकाः पर्याप्ताः, आवलिकासमयवर्गस्य कतिपयसम्यन्यूनैरावलिकासमयैर्गुणितस्य यावान् समयराशिर्भवतितत्वत्प्रमाणत्वातेषाम्, उक्तञ्च-“आवलिवग्गोकमेणावलीएगुणिओहि बायरोतेऊ" इति,तेभ्योबादरत्रसकायिकाः पर्याप्ताअसङ्खयेयगुणाः, प्रतरे यावन्त्यङ्गुलसङ्खयेयभागमात्राणि खण्डानि तावत्प्रमाणत्वात्तेषाम्, उक्तञ्च
“पत्तेयपज्जत्तवणकाइयाउपयरंहरंति लोगस्सअंगुलअसंखभागेणभाइय"मिति, तेभ्यो बादरनिगोदपर्याप्तका असङ्खयेयगुणाः, तेषामत्यन्तसूक्ष्मावगाहनत्वात् जलाशयेषु च सर्वत्र प्रायोभावात्, तेभ्योबादरपृथिवीकायिकाःपर्याप्ता असङ्खयेयगुणाः, अतिप्रभूतसङ्खयेयप्रतराङ्गुलासवयेयभागखण्डमानत्वात्, तेभ्योऽपिबादराकायिकाः पर्याप्ता असङ्खयेयगुणाः,अतिप्रभूततरास
येयप्रतराङ्गुलासङ्खयेयभागखण्डमानत्वात्, तेभ्यो बादरवायुकायिकाः पर्याप्ता असङ्खयेयगुणाः, घनीकृतस्य लोकस्यासङ्खयेयेषु प्रतरेषु सङ्ख्याततमभागवर्तिषु यावन्त आकाशप्रदेशास्तावप्रमाणत्वात्तेषां, तेभ्यो बादरवनस्पतिकायिकाः पर्याप्ताअनन्तगुणाः,प्रतिबादरैकैकनिगोदमनन्तानांजीवानां भावात्, तेभ्यः सामान्यतो बादरपर्याप्तका विशेषाधिकाः, बादरतेजस्कायिकादीनामपि पर्याप्तानां तत्र प्रक्षेपात्।
गतंतृतीयमल्पबहुत्वमिदानीमेतेषामेव प्रत्येकंपर्याप्तापर्याप्तगतमल्पबहुत्वमाह-एएसि ण'मित्यादि, इह बादरैकैकपर्याप्तनिश्रयाऽसङ्खयेया बादराअपर्याप्ता उत्पद्यन्ते, “पज्जत्तगनिस्साए अपज्जत्तगा वक्कमंति, जत्थ एगो तत्थ नियमाअसंखेजा" इति वचनात्, ततः सर्वत्र पर्याप्तेभ्योऽपर्याप्ता असङ्घयेयगुणा वक्तव्याः । बादरत्रसकायिकसूत्रंतु प्रागुक्तयुक्तया भावनीयम् ।
गतंचतुर्थमप्यल्पबहुत्वं, सम्प्रत्येतेषामेव समुदितानांपर्याप्तापर्याप्तानांपञ्चममल्पबहुत्वमाह'एएसिण'मित्यादि, सर्वस्तोका बादरदेजस्कायिकाः पर्याप्ताः, तेभ्यो बादरत्रसकायिकाः पर्याप्ता असङ्घयेयगुणाः, तेभ्यो बादरप्रत्येकवनस्पतिकायिकाः पर्याप्ताअसङ्खयेयगुणाः, तेभ्यो बादरनिगोदाः पर्याप्ताअसङ्खयेयगुणाः, तेभ्यो बादरपृथिवीकायिकाः पर्याप्ता असङ्खयेयगुणाः, तेभ्यो बादराप्याकियाः पर्याप्ता असङ्खयेयगुणाः, तेभ्यो बादरवायुकायिकाः पर्याप्ताअसङ्खयेयेषुलोकाकाशप्रदेशेषु यावन्त आकाशप्रदेशास्तावप्रमाणाः बादरतेजस्कायिकाश्चापर्याप्ता असङ्खयेयलोकाकाशप्रदेशप्रमाणास्ततोभवन्सङ्खयेयगुणाः, ततः प्रत्येकबादरवनस्पतिकायिकबादरनिगोदवादरनिगोदवादरपृथिवीकायिकबादराप्कायिकबादरवायुकायिका अपर्याप्ता यथोत्तरमसङ्खयेयगुणा वक्तव्याः।
यद्यपि चैते प्रत्येकमसङ्ख्ययलोकाकाशप्रदेशप्रमाणास्तथाऽप्यसङ्ख्यातस्यासङ्ख्यात
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org