Book Title: Agam Suttani Satikam Part 09 Jivajivabhigam
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 423
________________ ४२० जीवाजीवाभिगमउपाङ्गसूत्रम् ३/जो०/३१८ महर्टिकानि बृहस्तिथिकत्वात्, एवं नक्षत्रेभ्यो ग्रहा महर्द्धिकाः, ग्रहेभ्यः सूर्या महार्द्धिकाः, सूर्येभ्यश्चन्द्रा महर्द्धिकाः, एवं सर्वाल्पर्द्धयस्ताराः सर्वमहर्द्धयश्चन्द्राः। सम्प्रति जम्बूद्वीपे ताराणां परस्परमन्तरप्रतिपादनार्थमाह मू. (३१८) जंबूदीवे णं भंते ! दीवे तारारुवस्स २ एस णं केवतियं अबाधाए अंतरे पण्णत्ते?, गोयमा! दुविहे अंतरे पण्णत्ते, तंजहा-वाघातिमे य निव्वाघाइमे य । तत्थ णंजे से वाघातिमे से जहन्नेणं दोन्नि य छावढे जोयणसए उक्कोसेणं बारस जोयणसहस्सइं दोणिय य बायाले जोयणसए तारारुवस्स २ य आबाहाए अंतरे पन्नते । तत्थ णं जे से निव्वाघातिमे से जहन्नेणं पंचधणुसयाइं उक्कोसेणं दो गाउयाइंतारारुव जाव अंतरे प०॥ वृ. 'जंबूदीवेणं भंते ! दीवे इत्यादि, जम्बूद्वीपे भदन्त ! द्वीपे तारायास्ताराया एतदन्तरं कियदबाधयाप्रज्ञप्म्?, भगवानाह-गौतम! द्विविधमन्तरंप्रज्ञप्तं, तद्यथा-व्याघातिमंनिव्यार्घातिम च, व्याहननं व्याघातः-पर्वतादिस्खलनं तेन निवृत्तं व्याघातिमं 'मावादिम्' इति इमप्रत्ययः, निर्वाघातिम-व्याघातिमानिर्गतं स्वाभाविकमित्यर्थ, तत्र यन्नियाघातिमं तज्जघन्येन पञ्च धनुःशतानि उत्कर्षतोद्वेगव्य, तत्र यद्व्याघातिमंतजघन्येन द्वोयोजनशते 'षट्षष्टे षट्षष्टधिके, एतच्च निषघकूटादिकमपेक्ष्य वेदितव्यं, तथाहि निषधपर्वतःस्वभावादप्युच्चैश्चत्पारियोजनशतानितस्योपरिपञ्चयोजनशतोच्चानि कूटानि, तानिचमूले पञ्च योजनशतान्यायामविष्कम्भाभ्यांमध्ये त्रीणियोजनशतानि पञ्चसत्पत्यधिकानि उपर्यर्द्धतृतीयानि, तेषां चोपरितनभागसमश्रेणिप्रदेशेतथाजगत्स्वाभाव्यादष्टावष्टौ योजनान्युभयतोऽबाधया कृत्वा ताराविमानानि परिभ्रमन्ति, ततो जघन्यतो व्याघातिममन्तरं द्वे योजनशते षषष्ट्यधिके भवति, उत्कर्षतो द्वादशयोजनसहस्पणिद्वेजोयनशते द्वाचत्वारिंशदधिके, एतच्च मेरुमपेक्ष्य द्रष्टव्यं, तथाहि-मेरुर्दशय योजनसहस्राणि मेरश्चोभयतोऽबाधया एकादश योजनशतान्येकविंशत्यधिकानि, ततःसर्वसङ्ख्यामीलने द्वादशयोजनसहस्राणि द्वेचयोजनशतेद्वाचत्वारिंशदधिके, कचित्सर्वत्र वाघाइएनिव्वाघाइए' इति पाठस्तत्र व्याघातो यथोक्तरूपोऽस्यास्तीति व्याघातिकम्, 'अत्रोऽनेकस्वरा'दिति मत्वर्थीयइकप्रत्ययः, व्याघातिकानिर्गतं निव्यार्घातिकमिति मू. (३१९) चंदस्स णं भंते ! जोतिसिंदस्स जोतिसरनो कति अग्गमहिसीओ पन्नताओ?, गोयमा! चत्तारि अग्गमहिसीओपन्नत्ताओ, तंजहा-चंदप्पभादोसिणाभाअच्चिमालीपभंकरा, एत्थ णं एगमेगाए देवीए चत्तारि चत्तारि देवसाहस्सीओ परिवारे य, पभूणं ततो एगमेगा देवी एगमेगा देवी अन्नाइं चत्तारि २ देविसहस्साइं परिवारं विउजित्तए, एतमेव सपुव्वावरेणं सोलस देवसाहस्सीओ पन्नत्ताओ, से तुंतुडिए । वृ. 'चंदस्स णं भंते!' इत्यादि, चन्द्रस्य भदन्त ! ज्योतिषेन्द्रस्य ज्योतिषराजस्य 'कति' कियत्सङ्ख्याका अग्रमहिष्यःप्रज्ञप्ताः?, भगवानाह-गौतम! चतस्रऽग्रमहिष्यः प्रज्ञप्ताः, तद्यथाचन्द्रप्रभा १ 'दोसिणाभा' इति ज्योत्स्नाभा २ अर्चिाली ३ प्रभङ्करा ४॥ _ 'तत्थ ण मित्यादि, 'तत्र' तासु चतसृषु अग्रमहिषीषु मध्ये एकैकस्या देव्याश्चत्वारि २ देवीसहस्राणि परिवारः प्रज्ञप्तः, किमुक्तं भवति?-एकैकाऽग्रमहिषी चतुर्णी २ देवीसहस्राणां पट्टराज्ञी, एकैवसाइत्थम्भूताऽग्रमहिषीपरिवारावसरे तथाविधांज्योतिष्कराजचन्द्रदेवेच्छामुपलभ्य Jain Education International For Private & Personal Use Only www.jainelibrary.org


Page Navigation
1 ... 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532