Book Title: Agam Suttani Satikam Part 09 Jivajivabhigam
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
४००
जीवाजीवाभिगमउपाङ्गसूत्रम् ३/दीव०/२९४ स्तस्य चतुर्दिशि चतसृषु दिक्षु एकैकस्यादिशिएकैकनन्दापुष्करिणीभावेन चतननन्दापुष्करिण्यः प्रज्ञप्तास्तद्यथा-पूर्वस्यां दिशिनन्दिषेणा दक्षिणस्याममोघा अपरस्यांगोत्सूपा उत्तरस्यांसुदर्शना, ताश्च पुष्करिण्य एकं योजनशतसहनमायामविष्कम्भाभ्यां त्रीणि योजनशतसहस्राणि षोडश सहस्राणि द्वेशते सप्तविंशत्यधिके त्रीणिगव्यूतानिअष्टाविंशंधनुःशतंत्रयोदशाङ्गुलानि अर्धाङ्गुलं च किञ्चिद्विशेषाधिकंपरिक्षेपेण प्रज्ञप्ताः, दश योजनान्युद्वेधेन, 'अच्छाओ सण्हाओ रययामयकूलाओं' इत्यादि जगत्युपरिपुष्करिणीवन्निरवशेषं वक्तव्यं नवरं वट्टाओ समतीराओखोदोदगपडिपुण्णाओ' इति विशेषः, ताश्च प्रत्येकं प्रत्येकं पद्मवरवेदिकया वनखण्डेन च परिक्षिप्ताः, अत्रापीदमन्यदधिकं पुस्तकान्तरे द्दश्यते-'तासिणं पुक्खरिणीणं पत्तेयं पत्तेयं चउद्दिसि चत्तारि वनसंडापन्नत्ता तंजहा-पुरच्छिमेमंदाहिणेणं अवरेणंउत्तरेणं, पुव्वेण असोगवणंजावचूयवणं उत्तरे पासे' एवं शेषाअनपर्वतसम्बन्धिनीनामपि नन्दापुष्करिणीनां वाच्यम्।
'तासिण'मित्यादि, तासांपुष्करिणीनां बहुमध्यदेशभागेप्रत्येकं २ दधिमुखनामा पर्वतः प्रज्ञप्तः, तेण मित्यादि, ते दधिमुखपर्वताश्चतुःषष्टिर्योजनसहस्राणि ऊर्द्धमुच्चैस्त्वेन एकं योजनसहस्रमुद्वेधेन सर्वत्र समाः पल्यङ्कसंस्थानसंस्थिता दश योजनसहस्राणि विष्कम्भेनएकत्रिंशद् योजनसहनाणिषट् त्रयोविंशानि' त्रयोविंशत्यधिकानियोजनशतानिपरिक्षेपेण प्रज्ञप्ताः सर्वात्मना स्फटिकमयाअच्छायावप्रतिरूपाः प्रत्येकंप्रत्येकंपद्मवरवेदिकयापरिक्षिप्ताःप्रत्येकंर वनखण्डेन परिक्षिप्ताः। तेसिण'मित्यादि, तेषां दधिमुखपर्वतानामुपरिप्रत्येकं र बहुसमरमणीयोभूमिभागः प्रज्ञप्तः, तस्य शब्दवर्णनं तावद्वक्तव्यं यावद्बहवो 'वानमन्तरा देवा देवीओ य आसयंति सयंति जाव विहरंति' ॥ तेसि ण मित्यादि, तेषां बहुसमरमणीयानां भूमिभागानां बहुमध्यदेशभागे प्रत्येकं २ सिद्धायतनं प्रज्ञप्तं, सिद्धायतनवक्तव्यता प्रमाणादिका अञ्जनपर्वतोपरिसिद्धायतनवद्वक्तव्या यावदष्टशतं प्रत्येकं प्रत्येकं धूपकडुच्छुकानामिति।।
'तत्थ णंजे से दाहिणे अंजनगपव्वए' इत्यादि, दक्षिणाअनकपर्वतस्यापि पूर्वदिग्भाव्यअनकपर्वतस्येवनिरवशेषं वक्तव्यं, नवरंनन्दापुष्करिणीनांनामनानात्वंतद्यथा-पूरवस्यांनन्दोत्तरा दक्षिणस्यांनन्दाअपरस्यामानन्दा उत्तरस्यां नन्दिवर्द्धना, शेषंतथैव ॥'तत्थणंजे से पञ्चत्थिमिल्ले अंजनगपव्वतेतस्सणंचउद्दिसिंचत्तारि' इत्यादि, पूर्वदिग्भाव्यअनपर्वतस्येवपश्चिमदिग्भाव्यञ्जनपर्वतस्यापि वक्तव्यं यावप्रत्येकं प्रत्येकमष्टशतं धूपकडुच्छुकानां, नवरं नन्दापुष्करिणीनां नामनानात्वं, तद्यथा-पूर्वस्यादिशिभद्रादक्षिणस्यांविशालाअपरस्यांकुमुदाउत्तरस्यां पुण्डरीकिणी, शेषतथैव ॥एवमुत्तरदिग्भाव्यञ्जनकपर्वतेवक्तव्यं, नवरमत्रापिनन्दापुष्करिणीनांनामनानात्वं, तद्यथा-पूर्वस्यां दिशि विजया दक्षिणस्यां वैजयन्ता अपरस्यां जयन्ता उत्तरस्यामपराजिता, शेषं तथैवयावत्प्रत्येकं प्रत्येकमष्टशतंधूपकडुच्छुकानामिति।षोडशानामपिचामीषां वापीनामपान्तराले प्रत्येकं प्रत्येकं रतिकरपर्वतौ जिनभवमण्डितशिखरौ शास्त्रन्तरेऽभिहिताविति सर्वसङ्ख्यया नन्दीश्वरद्वीपे द्वापञ्चाशत् सिद्धायतनानि।
_ 'तत्थ ण'मित्यादि, 'तत्र' तेषु सिद्धायतनेषु णमिति पूर्ववत् बहवो भवनपतिवानमन्तरज्योतिष्कवैमानिका देवाश्चातुर्मासिकेषु पर्युषणायामन्येषु च बहुषु जिनजन्मनिष्कमणज्ञानोत्पादपरिनिर्वाणादिषु देवकार्येषु देवसमितिषु एतदेव पर्यायद्वयेन व्याचष्टे-देवसमवायेषु
www.jainelibrary.org
Jain Education International
For Private & Personal Use Only

Page Navigation
1 ... 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532