Book Title: Agam Sutra Satik 12 Auppatik UpangSutra 01
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 11
________________ ७० औपपातिकउपाङ्गसूत्रम्-१ 'कविसीसयवट्टरइयसंठियविरायमाणा' कपिशीर्षकैर्वृत्तरचितैः-वर्तुलकृतैः संस्थितैःविशिष्टसंस्थानवद्भिर्विराजमाना-शोभमाना या सा तथा । ‘अट्टालयचरियदारगोपुरतोरणउग्णयसुविभत्तरायमग्गा' अट्टालकाः-प्राकारोपरिवत्यारियविशेषाः, चरिका- अष्टहस्तप्रमाणा नगरप्राकारान्तरालमार्गा, द्वाराणि-प्राकारद्वारिकाः, गोपुराणि-पुरद्वाराणि, तोरणानि-प्रतीतानि, उन्नतानि-गुणवन्ति उच्चानि च यस्यां सा तथा, सुविभक्ताः-विविक्ता राजमार्गा यस्यां सा तथा, ततः पदद्वयस्य कर्मधारयः। ___'छेयायरियइयदढफलिहइंदकीला' छेकेन-निपुणेनाचार्येण-शिल्पिना रचितो ढो-बलवान् परिघः-अर्गला इन्द्रकीलश्च-गोपुरावयवविशएषो यस्यां सा तथा। मू. (१-वति) विवणिवणिच्छेत्तसिप्पियाइण्णणिब्बुसुहा सिंघाडगतिगचउक्कचञ्चरपणियावणविवि-हवत्युपरिमंडियासुरम्मा नरवइपविइण्णमहिवइपहा अनेगवतुरगमत्तकुंजररहपहकरसीयसंदमाणीयाइण्णजाणजुग्गा विमउलणवणलिणिसोभियजला पंडुवरभवणसण्णिमहिया उत्ताणणयणपेच्छणिजा पासादीया दरिसणिज्जा अभिरूवा पडिरूवा। वृ.'विवणिवणिच्छेत्तसिप्पियाइण्णणिव्वुयसुहा' विपणीनां-वणिक्पथानांहट्टमार्गाणां, वणिजांच-वाणिजकानांच, क्षेत्रस्थानं या सा तथा, शिल्पिभिः-कुम्भकारादिभिराकीर्णा अत एवजनप्रयोजनसिद्धेर्जनानां निवृतत्वेन सुखितत्वेन च निवृतसुखाच या सा तथा, वाचनान्तरे छेत्तशब्दस्य स्थाने छेयशब्दोऽधीयते, तत्र च छेकशिल्पिकाकीर्णेति व्याख्येयम् । सिंघाडगतिगचउक्कचच्चरपणियावणविविहवत्युपरिमंडिया' श्रृङ्गाटकं-त्रिकोणंस्थानं, त्रिकं यत्ररथ्यात्रयं मिलति, चतष्कं-रथ्याचतष्कमेलकं,चत्वरं-बहरथ्यापातस्थानं,पणितानि--भाण्डानितप्रधाना आपणा-हट्टाः, विविधवस्तूनि-अनेकविधद्रव्याणि, एभि परिमण्डिता या सा तथा, पुस्तकान्तरेऽधीयते–'सिंघाडगतिगचउक्कचम्चचउम्मुहमहापहपहेसुपणियावणविविहवेसपरिमंडिया' तत्रचतुर्मुखं-चतुरि देवकुलादि, महापथो-राजमार्ग, पन्थाः-तदितरः, ततश्च श्रृङ्गाटकादिषु पणितापणैः विविधवेषैश्च जनैर्वविधवेश्याभिर्वा परिमण्डिता या सा तथा। 'सुरम्मा' अतिरमणीया । नरवइपविइण्णमहिवइमहा नरपतिना-राज्ञा प्रविकीर्णोगमनागमनाभ्यां व्याप्तो महीपतिपथो राजमार्गोयस्यांसा तथा, अथवा-नरपतिना प्रविकीर्णाविक्षिप्ता निरस्ताऽन्येषां महीपतीनांप्रभा यस्यां सातथा, अथवा-नरपतिभिप्रविकीर्णा महीपतेः प्रभा यस्यांसा तथा। 'अनेगवरतुरगमत्तकुंजररहपहकरसीयसंदमाणीयाइण्णजाजुग्गा' अनेकैर्वरतुर- गैर्मत्तकुञ्जरैः रहपहकरत्ति-रथनिकरैः शिबिकाभि स्यन्दमानीभिराकीर्णा-व्याप्ता यानैर्युग्यैश्च या सा तथा, अथवा अनेकेवरतुरगादयोयस्यांआकीर्णानिच गुणवन्तियानादीनि यस्यांसा तथा, तत्रशिबिकाः-कूटाकारणाच्छादिता जम्पानविशेषाः, स्यन्दमानिकाः-पुरुषप्रमाणजम्पानविशेषाः, यानानि-शकटादीनि, युग्यानि-गोल्लविषयप्रसिद्धानि द्विहस्तप्रमाणानि वेदिकोपशोभितानि जम्पानान्येवेति । 'विमउलणवणलिणिसोभियजला' विमुकुलाभि-विकसितकमलाभिर्नवाभिनलिनीभि-पद्मिनीभिःशोभितानि जलानि यस्यां सा तथा । 'पंडुरवरभवणसण्णिमहिया' पाण्डुरैः-- सुधाधवलैः वरभवनैः प्रासादैः सम्यनितरांमहितेव महिता-पूजिताया सा तथा। उत्ताणन Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 ... 150