Book Title: Agam Sutra Satik 12 Auppatik UpangSutra 01
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 10
________________ मूलं-१ दण्डपाशिकाः शुल्कपाला वा एभी रहिता या सा तथा, अनेन तत्रोपद्रवकारिणामभावमाह । 'खेमा' अशिवाभावात्। 'निरुवद्दवा निरुपद्रवा, अविद्यमानराजादिकृतोपद्रवेत्यर्थ । 'सुभिक्खा' सुष्टु-मनोज्ञाः प्रचुरा भिक्षा भिक्षुकाणां यस्यां सा सुभिक्षा ।अत एव पाषण्डिनांगृहस्थानांच'वीसत्थर हावासा' विश्वस्तानां-निर्भयानामनुत्सुकानां वा सुखः-सुखस्वरूपः शुभो वा आवासो यस्यां सा तथा 'अनेगकोडिकुडुम्बियाइण्णनिब्बुयसुहा' अनेकाः कोटयो द्रव्यसझ्यानांस्वरूपपरिमाणेगा येषां ते अनेककोटयः तैः कौटुम्बिकैः-कुटुम्बिभिराकीर्णा-सङ्कला या सा तथा, सा चासौगिता च-सन्तुष्टजनयोगात्सन्तोषवतीतिकर्मधारयः, अतएवसाचासौ सुखाच शुभा वेति कर्मधारयः 'नडनट्टगजल्लमल्लमुट्टियवेलम्बयकहगपवगलास ग आइक्खगलंखमंखतूणइल्लतु बवीणियअणेगतालायराणुचरिया' नटाः-नाटकानां नाटयितारो नर्तका ये नृत्यन्ति, अ.िइत्येके, जल्ला-वरनाखेलकाः, राज्ञः स्तोत्रपाठका इत्यन्ये, मल्लाः-प्रतीताः मौष्टिका-मल्ला एव ये मुष्टिभिप्रहरन्ति, विडम्बकाः-विदूषकाः, कथकाः-प्रतीताः, प्लवका-ये उत्प्लवन्ते नद्यादिकं वातरन्ति, लासका-येरासकान् गायन्ति, जयशब्दप्रयोक्तारोवा, भाण्डाइत्यर्थ, आख्यायका-ये शुभाशुभमाख्यान्ति, लजा-महावंशानखेलकाः, मङ्काः-चित्रफलकहस्ता भिक्षुकाः, तूणइल्लातूणाभिधानवाद्विशेषवन्तः, तुम्बवीणिका-वीणावादकाः, अनेके च ये तालाचराःतालादानेन प्रेक्षाकारिणस्तैरनुचरिता-आसेविता या सा तथा । _ 'आरामुञ्जाणअगडतलायदीहियवप्पिणिगुणोववेया' आरमन्तियेषुमाधवीलदागृहादिषु दम्पत्यादीनिक्रीडन्ति, आरामाः, उद्यानानि-पुष्पादिमदवृक्षसकुलान्युत्सवादौ बहुजनभोग्यानि, 'अगडत्ति' अवटाः-कूपाः, तडागानि-प्रतीतानि, दीर्धिका-सारणी, 'वप्पिणि'त्ति केदाराः, एतेषां ये गुणारम्यतादयस्तैरुपपेता-युक्ता या सा तथा, उप अप इत इत्येतस्य शब्दत्रयस्थ स्थाने शकन्ध्वादिदर्शनादकारलोपे उपपेतेतिभवति।कवचित्पठ्यते 'नन्दणवणसन्निभप्पगासा' नन्दनवनं-मेरोर्द्वितीयवनंतप्रकाशसन्निभः प्रकाशो यस्यां सा तथा, इह चैकस्य प्रकाशशब्दस्य लोपः उष्ट्रमुख इत्यादाविवेति। मू. (१-वर्तते) उब्बिद्धविउलगंभीरखायफलिहा चक्कगयमुसुंढिओरोहसयग्घिजमलकवाडघणदुप्पवेसा धणुकुडिलवंकपागारपरिक्खित्ता कविसीसयवट्टरइयसंठियविरायमाणा अट्टालयचरियदारगोपुरतोरणउण्णयसुविभत्तरायमग्गा छेयायरियरइयदढफलिहइंकीला। वृ. 'उब्विद्धविउलगम्भीरखायफलिहा' उद्विद्धं-ऊर्द्धं विपुलं-विस्तीर्णं गम्भीरम्अलब्धमध्यं खातम्-उपरिविस्तीर्णम् अधःसङ्कटं परिखाच-अध उपरिचसमखातरूपा यस्यां सातथा । चक्कगयमुसुंढिओरोहसयग्घिजमलकवाडधणदुप्पवेसा' चक्राणि-रथाङ्गानिअरघट्टाङ्गानि वा, गदाः-प्रहरणविशेषाः, मुसुण्ढयोऽप्येवम्, अवरोधः-प्रतोलिद्वारेष्ववान्तरप्राकारः सम्भाव्यते, शतघ्नयो महायष्टयो महाशिला वा या उपरिष्टात्पातिताः सत्यः शतानि पुरुषाणां जन्तीति, यमलानि-समसंस्थितद्वयरूपाणि यानि कपाटानि घनानि च निश्छिद्राणि तैर्दुष्प्रवेशा या सा तथा । 'धणुकुडिलवंकपागारपरिक्खित्ता' धनुःकुटिलं-कुटिलधनुस्ततोऽपि वक्रेण प्राकारेण परिक्षिप्ता या सा तथा। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 ... 150