Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 01
Author(s): Bechardas Doshi
Publisher: Dadar Aradhana Bhavan Jain Poshadhshala Trust

View full book text
Previous | Next

Page 269
________________ शतक २. - उद्देशक १. भगवत्सुधर्मस्वामिप्रणीत भगवतीसूत्र. २४९ ६. 'तए णं' ति ततोऽनन्तरम्, 'इमेआरूवे' त्ति अयं वक्ष्यमाणतया प्रत्यक्षः, स च कविना उच्यमानो न्यूनाधिकोऽपि भवति इत्यत आह - एतदेव रूपं यस्याऽसौ एतद्रूपः, 'अज्झत्थिए' त्ति आध्यात्मिक आत्मविषयः, 'चिंतिए' त्ति स्मरणरूपः, 'पत्थिए' त्ति प्रार्थितः अभिलाषात्मकः, 'मणोगए' त्ति मनसि एव यो गतः न बहिः, वचनेनाऽप्रकाशनात् स तथा संकल्पो विकल्पः, 'समुप्पज्जित्थ' ति समुत्पन्नवान्, ‘सेयं’ ति श्रेयः कल्याणम्. 'पुच्छित्तए' त्ति योग:. 'इमाई च णं' ति प्राकृतत्वाद् इमान् अनन्तरोक्तत्वेन प्रत्यक्षाऽऽसन्नान्, चशब्दाद् अन्यांश्च ‘एयारूवाइं’ति एतद्रूपान् उक्तवरूपान्, अथवा एतेषामेव अनन्तरोक्तानाम् अर्थानां रूपं येषां प्रष्टव्यतासाधर्म्यात् ते तथा ज्ञान्–अर्थान् भावान् लोकसान्तत्वादीन्, तदन्यांश्च. 'हेऊई' ति अन्वय - व्यतिरेकलक्षणहेतुगम्यत्वाद् हेतवो लोकसान्तत्वादय एव, तदन्ये च अतस्तान्. 'पसिणाई' ति प्रश्नविषयत्वात् प्रश्ना एते एव, तदन्ये वा, अतस्तान्. 'कारणाई' ति कारणम् उपपत्तिमात्रम्, तद्विषयत्वात् कारणानि एते एव तदन्ये वा, अतस्तानि. 'वागरणाई' ति व्याक्रियमाणत्वाद् व्याकरणानि एते एव, तदन्ये वा, अतस्तानि. 'पुच्छित्तए' त्ति प्रष्टुम्, 'ति कट्टु' इति कृत्वा, अनेन कारणेन एवम्. 'संपेहेइ' त्ति एवम् उक्तप्रकारं भगवद्वन्दनादिकरणम् इत्यर्थः . संप्रेक्षते पर्यालोचयति. 'परिव्वायावसहे' त्ति परिव्राजकमठः कुण्डिका कमण्डलुः काञ्चनिका रुद्राक्षकृता. करोटिका मृद्भाजन विशेषः. भृशिका आसनविशेषः केशरिका प्रमार्जनार्थ चीवरखण्डम् षड्नालकं त्रिकाष्ठिका. अङ्कुशकं तरुपलत्रग्रहणार्थम् अङ्कुशाऽऽकृतिः. पवित्रकम् अङ्गुलीयकम्. गणेत्रिका कलाचिकाऽऽभरणविशेषः. 'घाउरत्ताओ' त्ति शाटिका इति शेष: 'तिदंड' इत्यादि. त्रिदण्डिकादीनि दश हस्ते गतानि स्थितानि यस्य स तथा 'पहारेत्य' त्ति प्रधारितवान् संकल्पितवान्, गमनाय गन्तुम्. 'गोयमाइ' त्ति गौतम । इति एवम् 'आमन्त्रयेति शेषः, अथवा 'अयि' इति आमन्त्रणार्थ एव. 'से काहे व' त्ति अथ कदा कस्यां वेलायाम् इत्यर्थः. 'कहं व' त्ति केन वा प्रकारेण साक्षाद् दर्शनतः, श्रवणतो वा. 'केवञ्चिरेण व' त्ति कियतो वा कालात्. 'सावत्थी नामं नयरी होत्थ' त्ति विभक्तिपरिणामाद् अस्ती - त्यर्थः, अथवा कालस्याऽवसर्पिणीत्वात् प्रसिद्धगुणा कालाऽन्तरे एवाऽभवत् नेदानीम् इति. 'अदूरागते' त्ति अदूरे आगतः, स चाऽवधिस्थानाऽपेक्षयाऽपि स्यात्, अथवा दूरतरमार्गाऽपेक्षया क्रोशादिकम् अपि अदूरं स्याद् अत उच्यतेः - 'बहुसंपते' ईषद् ऊनः संप्राप्तो बहुसंप्राप्तः, स च विश्रामादिहेतोराऽऽरामादिगतोऽपि स्यात्, अत उच्यते : - ' अद्धाणपडिवने' त्ति मार्गप्रतिपन्नः किम् उक्तं भवति ? 'अंतरापहे वट्टइ' त्ति विवक्षितस्थानयोरन्तरालमार्गे वर्तते इति. अनेन च सूत्रेण 'कथं द्रक्ष्यामि' ? इत्यस्य उत्तरम् उक्तम् कथं ? यतोSदूरागतादिविशेषणस्य साक्षाद् एव दर्शनं संभवति तथा 'अज्जेव णं दच्छसि' इत्यनेन 'कियच्चिरात्' ? इत्यस्य उत्तरम् उक्तम् 'काहे ' इत्यस्य च उत्तरं सामर्थ्यगम्यम् - यतो यदि भगवता मध्याह्नसमये इयं वार्ताऽभिहिता तदा मध्याह्नसमयस्योपरि मुहूर्ताद्यतिक्रमेण या वेला भवति तस्यां द्रक्ष्यसि इति सामर्थ्याद् उक्तम् अदूरागतादिविशेषणस्य हि तदेशप्राप्तौ मुहूर्तादिरेव कालः संभवति, न बहुत इति . ‘अगाराओ' त्ति निष्क्रम्य इति शेषः अनगारितां साधुतां प्रत्रजितुं गन्तुम्, अथवा विभक्तिपरिणामाद् अनगारितया प्रव्रजितुं प्रव्रज्यां प्रतिपत्तुम्, 'अब्भुट्टेति' त्ति आसनं व्यजति यच्च भगवतो गौतमस्याऽसंयतं प्रति अभ्युत्थानं तद् भाविसंयतत्वेन तस्य पक्षपातविषयत्वात्, गौतमस्य चाक्षीणरागत्वात् तथा भगवदाऽऽविष्कृततदीयविकल्पस्य तत्समीपगमनतस्तत्कथनाद् भगवद्ज्ञानाऽतिशयप्रकाशनेन भगवति अतीव' बहुमानोत्पादनस्य चिकीर्षितत्वाद् इति. 'हे खंदर्य' त्ति संबोधनमात्रम्, 'सागयं खंदय' त्ति स्वागतम् - शोभनम् आगमनं तव स्कन्दक ! महाकल्याणनिधेर्भगवतो महावीरस्य संपर्केण तव कल्याणनिबन्धनत्वात् तस्य 'सुसागयं' ति अतिशयेन स्वागतम्, कथंचिद् एकार्थों वा शब्दौ एतौ. एकार्थशब्दोच्चारणं च क्रियमाणं न दुष्टम्, संभ्रमनिमित्तत्वाद् अस्य इति 'अणुरागयं खंदय'त्ति रेकस्याऽऽगमिकत्वाद् अन्वागतम् अनुरूपमागमनं स्कन्दका ! तव इति दृश्यम् 'सागयमणुरागयं' ति शोभनत्वाऽनुरूपत्वलक्षणधर्मद्वयोपेतं तवाऽऽगमनम् इत्यर्थः . ६. [ 'तए णं' ति ] त्यार बाद, [ 'इमेआरूत्रे' त्ति ] हम कड़ेवाशे माटे आ प्रत्यक्ष कहेनार कवि तेने ओछो वघतो पण कहे माटे कहे छे के - एवा ज प्रकारनो-एवी ज जातनो, [ 'अज्झत्थिए' त्ति ] आध्यात्मिक, ['चिंतिए' त्ति ] स्मरणरूप [ 'पत्थिए' त्ति ] अभिलाषरूप, [ 'मणोगए' त्ति ] मनमां थएलो, कारण के बहार जणावेलो नथी एवो संकल्प [ 'समुप्पज्जित्व' त्ति ] उत्पन्न थयो. श्रीस्कंदकनो संकल्प. [ 'सेयं' ति] कल्याण [ 'पुच्छित्तए' त्ति ] पूछवं ए अर्थात् पूछवं ए कल्याणने माटे छे. [ 'इमाई चे णं' ति] हमणां कलां माटे प्रत्यक्षासन्न, [ 'पयारूबाई' ति ] कहेल स्वरूपवाळां अथवा पूछवानी सरखाइने लीधे आगळ कहेल स्वरूपवाळा अर्थोनी जेवा अर्थोने'शुं लोक अंतवाळो छे?' इत्यादि अने बीजा अर्थेने, [ 'हेऊई' ति ] जे अन्वये अने व्यतिरेकरूपै हेतुथी जणाय ते हेतु - लोक सांतल्या दि अने बीजा 'अर्थोने, ['पसिणाई' ति ] ए जे प्रश्नोने अने बीजाने, [ 'कारणाई' ति ] कारण एटले उपपत्तिमात्र, ते उपपत्तिनो विषय होवाथी कारणोने-ते अने बीज अर्थाने, [ 'वागरणाई' ति ] स्पष्ट करवा योग्य ते अने वीजा अर्थेने, [ 'पुच्छित्तए' त्ति ] पूछवाने, ['ति कट्टु'] एम करीनेए कारणर्थी एम [ 'संपेहेइ' त्ति ] उक्त प्रकारवाळा भगवद्वंदनादि संबंधे विचार करे छे. [ 'परिव्वायाव सहे' चि ] परिव्राजकोनो-तापसोनो-मठ. कुण्डिका - कमंडलु-कमंडळ कांचनिका-रुद्राक्षनी माळा. करोटिका - एक जातनुं माटीनुं वासण. भृशिका-एक जातनुं आसन. केसरिका - साफसूफ करवानुं लुगडं-लुगडानो कटको. षड्नालक-त्रिकाष्टिका - त्रिगडी. अंकुशक-वृक्ष उपरथी पांदडां लेवा माटे अंकुशना जेवुं एक प्रकारनं साधन. पवित्रक - वींटी. गणेत्रिका - एक जातनुं कलाइनुं घरेणुं . [ 'घाउरत्ताओ' त्ति ] पहेवानां कपडां - शाटिका. [ 'तिदंड' इत्यादि . ] त्रिदंड वगेरे दश वस्तु १. 'च' शब्द अन्यनो सूचक छेः - श्री अभय २. अमुक होय त्यारे अमुक होय ज एवो जे नियम ते अन्वय ३. अमुक न होय त्यारे अमुक न ज होय एवो जे नियम ते व्यतिरेकः - अनु० १२ भ० सू० Jain Education International For Private & Personal Use Only श्रीस्कंकनो सामान. www.jainelibrary.org

Loading...

Page Navigation
1 ... 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372