Book Title: Agam 02 Ang 02 Sutrakrutangsutra Vol 1 Niryukti
Author(s): Bhadrabahuswami, Punyavijay
Publisher: Prakrit Granth Parishad

View full book text
Previous | Next

Page 155
________________ 10 १४४ णिज्जुत्ति-चुण्णिसमलंकियं [६ महावीरत्थवज्झयणे ज्ञानानि त्रीणि दर्शनानि, भास्कर इव सर्वतेजांस्यभिभूय केवलदर्शनेन जगत् प्रकाशयति । ज्ञानीति एवं केवलज्ञानेनापि अभिभूय इति वर्तते, उभाभ्यामपि कृत्स्नं लोका-ऽलोकमवभासते । अथवा लौकिकानि अज्ञानान्यभिभूय केवलज्ञान-दर्शनाभ्यां खद्योतकानिवाऽऽदित्यः एकः प्रकाशते । णिरामगंधे धितिमं ठितप्पा, निरामोऽसौ निर्गन्धश्च, आम इति उद्गमकोटिः । धृतिरस्यास्तीति धृतिमान् संयमे धृतिः। संयम एव यस्य स्थित आत्मा धर्मे वा सो ठितप्पा । अणुसरं सव्वजगं सि विजं, 5 नास्योत्तरं सर्वलोके यः कश्चिद् विद्वानित्यतः सर्वलोकं स विद्वान् । विजं नाम विद्वान् । ग्रन्थादतीते ति गंथातीते । दव्वगंथो सचित्तादि, भावे कोधादि, द्विधाऽप्यतीतः, निर्ग्रन्थ इत्यर्थः। अथवा ग्रन्थनं ग्रन्थः स्वाध्याय इत्यर्थः तमतीतः, कोऽर्थः ? नासौ श्रुतज्ञानेन जानीत इत्यर्थः। अभए इति अभयं करोत्यन्येषां न च स्वयं बिभेति । अनायुरिति नास्याऽऽगमिष्यं जन्म विद्यते आगमिष्यायुष्कबन्धो वा ॥ ५॥ ३५४. से भूतिपण्णे अणिएतचारी, ओघंतरे धीरे अणंतचक्खू । __ अणुत्तरं तवति सूरिए व, वैरोयणेदो व तमं पगासे ॥६॥ . ३५४. से भूतिपण्णे अणिएतचारी• वृत्तम् । भूतिर्हि वृद्धौ रक्षायां मङ्गले च भवति । वृद्धौ तावत्-प्रवृद्धप्रज्ञः अनन्तज्ञानवानित्यर्थः, रक्षायाम्-रक्षाभूताऽस्य प्रज्ञा सर्वलोकस्य सर्वसत्त्वानां वा, मङ्गलेऽपि-सर्वमङ्गलोत्तमोत्तमाऽस्य प्रज्ञा । अनियतं चरतीति अनियतचारी । ओघो द्रव्यौघः समुद्रः, भावौघः संसारः, तं तरतीति ओघंतरः । दधातीति धीरः। अणंतचक्षुरिति अणंतं केवलदर्शनं तदस्य चक्षुरिति अनन्तचक्षुः, अनन्तस्य वा लोकस्यासौ चक्षुर्भूतः । अणुत्तरं तवति सूरिए 15व, न हि सूर्यादन्यः कश्चित् प्रकाशाधिकः, एवं भट्टारकादपि नान्यः कश्चिद् ज्ञानाधिकः, णाणेणं चेव ओभासति तवति भासेति, अवसेसं च कर्म तवति, आदित्य इव सरांसि तपति औषधयो वा । वैरोयणेदो व "रुच दीप्तौ" विविधं रुचतीति वैरोचनः अग्निः, स हि सर्वदीप्तिवतां द्रव्याणामिन्द्रभूत इत्यतो वैरोचनेन्द्रः, स यथा आज्याभिषिक्तः तमः प्रकाशयति एवं भगवानप्यज्ञानतमांसि प्रकाशयति ॥ ६॥ ३५५. अणुत्तरं धम्ममिणं जिणाणं, णेता मुणी कासवे आसुपण्णे। 20 इंदे व देवाण महाणुभावे, सहस्सणेत्ता दिविणं विसिट्टे॥७॥ ३५५. अणुत्तरं धम्ममिणं जिणाणं० वृत्तम् । नास्योत्तरा अन्ये कुधर्मा इत्यनुत्तरम् । जिनानामिति अन्येषामपि जिनानां अयमेव धर्मः, अतीतानामागमिष्यतां च एष भगवतां धर्मः । अयमेव भगवान् नयतीति नेता, कोऽर्थः ?, जधा ते भगवन्तो नीतवन्तः तथाऽयमपि नयति । काश्यपगोत्रः काश्यपमुनिः । केवलज्ञानित्वाद् आशुप्रज्ञः आशुरेव प्रजानीते, न चिन्तयित्वेत्यर्थः । इंदे व देवाण महाणुभावे, इंदेण तुल्यं इंदवत् । अनुभवनमनुभावः, सौख्यं वीर्य माहात्म्यं चानुभावः। 25 सहस्रमस्य नेत्राणां सहस्सनेत्ता, अनेकानां वा सहस्राणां "नेता" नायक इत्यर्थः। दिवि भवा दिविनः। सर्वेभ्यो दिविभ्यः स्थान-रिद्धि-स्थिति-द्युति-कान्त्यादिभिर्विशिष्यते इति विशिष्टः, किमुतान्येभ्यः ? ॥ ७ ॥ किश्च ३५६. से पण्णसा अक्खये सागरे वा, महोदधी वा वि अणंतपारे । अणाइँले से अकसाय भिक्खू, सक्केव देवाधिपती जुतीमं ॥८॥ ६. से पण्णसा अक्खये सागरे वा. वृत्तम् । ज्ञायतेऽनेनेति प्रज्ञा ज्ञानसम्पत्, न तस्य ज्ञातव्येऽर्थे बुद्धिः 30 परिक्षीयते प्रतिहन्यते वा, सादीअपज्जवसितो कालतो, दव्य-खेत्त-भावेहिं अणते, दृष्टान्तः स्वयम्भरमणः सागरः, एकदेशेन हि औपम्यं क्रियते, यथाऽसौ विस्तीर्ण-गम्भीरजलो अक्षोभ्य एवमस्यानन्तगुणा प्रज्ञा विशाला गम्भीरा अक्षोभ्या च । अणाइले से अंकसाय अणाइलो णाम परीषहोपसर्गोदयेऽप्यनातुरः । अकसाय इति क्षीणकषाय एव, न तूपशान्त १तप्पति सूरिए वा, वइरोयर्णिदेव खं १ ख २ पु १ पु २ । सूरिते खं २ पु १॥ २ वृद्धौ मङ्गले रक्षायां च चूसप्र०॥ ३°भूतस्य चूसप्र० ॥ ४°णेता खं १ खं २ पु १ पु २ बृ० दी. चूपा० ॥ ५ दिवि णं इति पृथक्पदतया वृत्तौ व्याख्या-"दिवि स्वर्गे, णं इति वाक्यालङ्कारे" इति ॥ ६ पण्णया पु १ पु २॥ ७°इले या अकसादि मुक्के, सक्के खं १ पु २ वृ० दी। इले या अकसाय भिक्खू खं २ पु १ वृपा० दीपा० ॥ ८ शतव्येत्यर्थे चूसप्र०॥ ९अकसाए य चूसप्र०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262