________________
10
१४४ णिज्जुत्ति-चुण्णिसमलंकियं
[६ महावीरत्थवज्झयणे ज्ञानानि त्रीणि दर्शनानि, भास्कर इव सर्वतेजांस्यभिभूय केवलदर्शनेन जगत् प्रकाशयति । ज्ञानीति एवं केवलज्ञानेनापि अभिभूय इति वर्तते, उभाभ्यामपि कृत्स्नं लोका-ऽलोकमवभासते । अथवा लौकिकानि अज्ञानान्यभिभूय केवलज्ञान-दर्शनाभ्यां खद्योतकानिवाऽऽदित्यः एकः प्रकाशते । णिरामगंधे धितिमं ठितप्पा, निरामोऽसौ निर्गन्धश्च, आम इति उद्गमकोटिः । धृतिरस्यास्तीति धृतिमान् संयमे धृतिः। संयम एव यस्य स्थित आत्मा धर्मे वा सो ठितप्पा । अणुसरं सव्वजगं सि विजं, 5 नास्योत्तरं सर्वलोके यः कश्चिद् विद्वानित्यतः सर्वलोकं स विद्वान् । विजं नाम विद्वान् । ग्रन्थादतीते ति गंथातीते । दव्वगंथो सचित्तादि, भावे कोधादि, द्विधाऽप्यतीतः, निर्ग्रन्थ इत्यर्थः। अथवा ग्रन्थनं ग्रन्थः स्वाध्याय इत्यर्थः तमतीतः, कोऽर्थः ? नासौ श्रुतज्ञानेन जानीत इत्यर्थः। अभए इति अभयं करोत्यन्येषां न च स्वयं बिभेति । अनायुरिति नास्याऽऽगमिष्यं जन्म विद्यते आगमिष्यायुष्कबन्धो वा ॥ ५॥
३५४. से भूतिपण्णे अणिएतचारी, ओघंतरे धीरे अणंतचक्खू ।
__ अणुत्तरं तवति सूरिए व, वैरोयणेदो व तमं पगासे ॥६॥ . ३५४. से भूतिपण्णे अणिएतचारी• वृत्तम् । भूतिर्हि वृद्धौ रक्षायां मङ्गले च भवति । वृद्धौ तावत्-प्रवृद्धप्रज्ञः अनन्तज्ञानवानित्यर्थः, रक्षायाम्-रक्षाभूताऽस्य प्रज्ञा सर्वलोकस्य सर्वसत्त्वानां वा, मङ्गलेऽपि-सर्वमङ्गलोत्तमोत्तमाऽस्य प्रज्ञा । अनियतं चरतीति अनियतचारी । ओघो द्रव्यौघः समुद्रः, भावौघः संसारः, तं तरतीति ओघंतरः । दधातीति धीरः। अणंतचक्षुरिति अणंतं केवलदर्शनं तदस्य चक्षुरिति अनन्तचक्षुः, अनन्तस्य वा लोकस्यासौ चक्षुर्भूतः । अणुत्तरं तवति सूरिए 15व, न हि सूर्यादन्यः कश्चित् प्रकाशाधिकः, एवं भट्टारकादपि नान्यः कश्चिद् ज्ञानाधिकः, णाणेणं चेव ओभासति तवति भासेति, अवसेसं च कर्म तवति, आदित्य इव सरांसि तपति औषधयो वा । वैरोयणेदो व "रुच दीप्तौ" विविधं रुचतीति वैरोचनः अग्निः, स हि सर्वदीप्तिवतां द्रव्याणामिन्द्रभूत इत्यतो वैरोचनेन्द्रः, स यथा आज्याभिषिक्तः तमः प्रकाशयति एवं भगवानप्यज्ञानतमांसि प्रकाशयति ॥ ६॥
३५५. अणुत्तरं धम्ममिणं जिणाणं, णेता मुणी कासवे आसुपण्णे। 20
इंदे व देवाण महाणुभावे, सहस्सणेत्ता दिविणं विसिट्टे॥७॥ ३५५. अणुत्तरं धम्ममिणं जिणाणं० वृत्तम् । नास्योत्तरा अन्ये कुधर्मा इत्यनुत्तरम् । जिनानामिति अन्येषामपि जिनानां अयमेव धर्मः, अतीतानामागमिष्यतां च एष भगवतां धर्मः । अयमेव भगवान् नयतीति नेता, कोऽर्थः ?, जधा ते भगवन्तो नीतवन्तः तथाऽयमपि नयति । काश्यपगोत्रः काश्यपमुनिः । केवलज्ञानित्वाद् आशुप्रज्ञः आशुरेव प्रजानीते, न चिन्तयित्वेत्यर्थः । इंदे व देवाण महाणुभावे, इंदेण तुल्यं इंदवत् । अनुभवनमनुभावः, सौख्यं वीर्य माहात्म्यं चानुभावः। 25 सहस्रमस्य नेत्राणां सहस्सनेत्ता, अनेकानां वा सहस्राणां "नेता" नायक इत्यर्थः। दिवि भवा दिविनः। सर्वेभ्यो दिविभ्यः स्थान-रिद्धि-स्थिति-द्युति-कान्त्यादिभिर्विशिष्यते इति विशिष्टः, किमुतान्येभ्यः ? ॥ ७ ॥ किश्च
३५६. से पण्णसा अक्खये सागरे वा, महोदधी वा वि अणंतपारे ।
अणाइँले से अकसाय भिक्खू, सक्केव देवाधिपती जुतीमं ॥८॥ ६. से पण्णसा अक्खये सागरे वा. वृत्तम् । ज्ञायतेऽनेनेति प्रज्ञा ज्ञानसम्पत्, न तस्य ज्ञातव्येऽर्थे बुद्धिः 30 परिक्षीयते प्रतिहन्यते वा, सादीअपज्जवसितो कालतो, दव्य-खेत्त-भावेहिं अणते, दृष्टान्तः स्वयम्भरमणः सागरः, एकदेशेन हि औपम्यं क्रियते, यथाऽसौ विस्तीर्ण-गम्भीरजलो अक्षोभ्य एवमस्यानन्तगुणा प्रज्ञा विशाला गम्भीरा अक्षोभ्या च । अणाइले से अंकसाय अणाइलो णाम परीषहोपसर्गोदयेऽप्यनातुरः । अकसाय इति क्षीणकषाय एव, न तूपशान्त
१तप्पति सूरिए वा, वइरोयर्णिदेव खं १ ख २ पु १ पु २ । सूरिते खं २ पु १॥ २ वृद्धौ मङ्गले रक्षायां च चूसप्र०॥ ३°भूतस्य चूसप्र० ॥ ४°णेता खं १ खं २ पु १ पु २ बृ० दी. चूपा० ॥ ५ दिवि णं इति पृथक्पदतया वृत्तौ व्याख्या-"दिवि स्वर्गे, णं इति वाक्यालङ्कारे" इति ॥ ६ पण्णया पु १ पु २॥ ७°इले या अकसादि मुक्के, सक्के खं १ पु २ वृ० दी। इले या अकसाय भिक्खू खं २ पु १ वृपा० दीपा० ॥ ८ शतव्येत्यर्थे चूसप्र०॥ ९अकसाए य चूसप्र०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org