Book Title: shaddarshan Samucchay Satik Sanuwad part 02
Author(s): Sanyamkirtivijay
Publisher: Sanmarg Prakashan

View full book text
Previous | Next

Page 9
________________ ३८२ षड्दर्शन समुश्चय भाग - २, श्लोक - ४५-४६, जैनदर्शन प्रधान बना२वस्तुनुं या जने छ, ते ६शन उपाय छ. म 'केवलज्ञानदर्शन' વિશેષણથી ભગવાનનો જ્ઞાનાતિશય સાક્ષાત્ કહેવાયેલો જાણવો. ___तथा सुराः सर्वे देवाः, असुराश्च दैत्याः, सुरशब्देनासुराणां संग्रहणेऽपि पृथगुपादानं लोकरूढ्या ज्ञातव्यम् । लोको हि देवेभ्यो दानवांस्तद्विपक्षत्वेन पृथग्निर्दिशतीति । तेषामिन्दाः स्वामिनस्तेषां तैर्वा संपूज्योऽभ्यर्चनीयः । तादृशैरपि पूज्यस्य मानवतिर्यखेचरकिन्नरादिनिकरसेव्यत्वमानुषङ्गिकमिति । अनेन पूजातिशय उक्ताः । तथा सद्भूताः-यथावस्थिता येऽर्थाः-जीवादयः पदार्थास्तेषां प्रकाशकः-उपदेशकः । अनेन वचनातिशय उचानः । तथा कृत्स्नानि-संपूर्णानि घात्यघातीनि कर्माणि-ज्ञानावरणादीनि, तेषां क्षयः-सर्वथा प्रलयः । तं कृत्वा परमं पदं-सिद्धिं संप्राप्तः । एतेन कृत्स्नकर्मक्षयलक्षणा सिद्धावस्थाभिदधे । अपरे सुगतादयो मोक्षमवाप्यापि तीर्थनिकारादिसंभवे भूयो भवमवतरन्ति । यदाहुरन्ये-“ज्ञानिनो धर्मतीर्थस्य कर्तारः परमं पदम् । गत्वा गच्छन्ति भूयोऽपि भवं तीर्थनिकारतः ।।१।।” इति । न ते परमार्थतो मोक्षगतिभाजः कर्मक्षयाभावात् । न हि तत्त्वतः कर्मक्षये पुनर्भवावतारः । यदुक्तम्-“दग्धे बीजे यथात्यन्तं प्रादुर्भवति नाङ्कुरः । कर्मबीजे तथा दग्धे न रोहति भवाङ्कुरः ।।१ ।।” [तत्वार्थ धि० भा० - १०/७] उक्तं च श्रीसिद्धसेनदिवाकरपादैरपि भवाभिगामुकानां प्रबलमोहविजृम्भितम् । “दग्धेन्धनः पुनरुपैति भवं प्रमथ्य निर्वाणमप्यनवधारितभीरनिष्टम् । मुक्तः स्वयं कृततनुश्च परार्थशूरस्त्वच्छासनप्रतिहतेष्विह मोहराज्यम् ।।१ ।।” [सिद्ध० द्वा०] इत्यलं विस्तरेण । तदेवमेभिश्चतुर्भिरतिशयैः सनाथो मुक्तश्च यो देवो भवति, स एव देवत्वेनाश्रयणीयः, स एव च परान् सिद्धि प्रापयति, न पुनरितरः सरागो भवेऽवतारवांश्च देव इत्यावेदितं मन्तव्यम् । ટીકાનો ભાવાનુવાદ: સુર એટલે સર્વ દેવો. અને અસુર એટલે દૈત્યો. સુરશબ્દથી અસુરોનો સંગ્રહ થવા છતાં પણ અસુરનું પૃથક ગ્રહણ લોકરૂઢીથી કરેલું જાણવું. (કારણકે) લોકો દેવેન્દ્રોથી દાનવોનો પૃથફ નિર્દેશ કરે છે. કેમકે દાનવોને દેવેન્દ્રોથી વિપક્ષભૂત માને છે. તે સુર અને અસુરોના ઇન્દ્રોથી ભગવાન પૂજનીય છે. તેવા પ્રકારના ઇન્દ્રોથી પૂજ્ય ભગવાન માનવો, તિર્યંચો, ખેચરો, કિન્નરો આદિના સમુહથી સેવ્ય જ હોય, તેવું આનુષંગિક રીતે સમજાઈ य छे. साम 'सुरासुरेन्द्रसंपूज्यः' विशेषाथी भगवाननी पूतिशय वायो.

Loading...

Page Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 ... 544