Book Title: Vyomvati Part 01
Author(s): Vyomshivacharya, Gaurinath Shastri
Publisher: Sampurnanand Sanskrut Vishvavidyalaya Varanasi

View full book text
Previous | Next

Page 45
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सविकल्पक ज्ञानस्यार्थजत्व विचारः तत्र द्रव्याणि पृथिव्यप्तेजोवाय्वाकाशकालदिगात्ममनांसि सामान्यविशेष संज्ञयोक्तानि नवैवेति । तद्व्यतिरेकेणान्यस्य संज्ञानभिधानात् । संशयितान्युत्पन्नयोर्द्रव्य स्वरूपप्रतिपादनार्थमाह तत्र द्रव्याणि इत्यादि । तथाहि, प्रत्यक्षेण रूपादिव्यतिरिक्तस्य द्रव्यस्यावधारणाद् विपर्यस्तव्युदासः । रूपं हि चक्षुषैव गृह्यते स्पर्शस्त्वगिन्द्रियेण । हीन्द्रियग्राह्यन्तु द्रव्यम् । कथमेतत् ? प्रतिसन्धानात् । तथाहि यमहमद्राक्षं चक्षुषा तमेव स्पृशामि यश्वास्पृशं तमेव पश्यामीति । न च द्वाभ्यामिन्द्रियाभ्यामेकार्थग्रहणं विना प्रतिसन्धानं न्याय्यम् । रूपस्पर्शयो प्रतिनियतेन्द्रियग्राह्यत्वादेतन्न सम्भवतीति । 3 अथेदं कल्पनाज्ञानमिति चेत् किमिदं कल्पनाज्ञानं नामेति ? अथ क्षणिकत्वान्निर्विकल्पक ज्ञान समकालमर्थविनाशे स्मरणानन्तरमेव तद्भवतीति निर्विषयत्वादप्रमाणमिति चेत्, न । क्षणिकत्वासिद्धौ स्मरणानन्तरभाविनोऽपि निर्विकल्प कज्ञानवदर्थान्वयव्यतिरेकानुविधानादर्थजत्वमेव । अथार्थजत्वे निर्विकल्पक ज्ञानसमकालमेवार्थस्य सद्भावादिन्द्रियाणाञ्चाविचारकत्वेन स्यादेतदिति, तन्न | सहकार्यभावात् । तथाहि, इन्द्रियमर्थेषु सविकल्पक ज्ञानोत्पत्ती सङ्केत स्मरणापेक्षम् । अथ स्मरणे वार्थस्येन्द्रियस्य च किमति - शयाधान मनतिशय निवृत्तिरिष्यते ? न । तस्यैवातिशयत्वात् । तथाहि यद् यस्य सद्भावे कार्यं करोति तत्तस्यातिशयः । स्मरणसद्भावे चेन्द्रियं कार्यंकुदिति स्मरणमेव तस्यातिशयः । स्मरणाद् वा कारकसाकल्यमेवातिशयः सम्पद्यते, तद्वैकल्यश्चानतिशयो निवर्तते । साकल्ये हि कार्यकरणादिति । एते यदाहुः, यः प्रागजनको बुद्धेरुपयोगाविशेषतः । स पचादपि तेन स्यादर्थापायेऽपि नेत्रधीः ।। ( प्र० विनि०, पृ० ४२ ) इति एतदपास्तं भवति, उपयोगाविशेषस्यासिद्धत्वात् । तथाहि निर्विकल्पकबोधे नेन्द्रियस्य सङ्केत स्मरणमस्ति, सविकल्प के त्वस्तीत्युपयोगविशेषः । सविकल्पक ज्ञानस्यार्थजत्व विचारः अथ शब्दाकारं सविकल्पकं ज्ञानम् । शब्दरूपता चार्थे नास्ति, प्रथमेन्द्रियसन्निपात एव सविकल्पकोत्पत्तिप्रसङ्गात् । चक्षुरादिना वा परिच्छेदः, श्रोत्रपरिच्छेद्यत्वेन For Private And Personal Use Only १७ 5 10 15 20 25

Loading...

Page Navigation
1 ... 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226