Book Title: Vyomvati Part 01
Author(s): Vyomshivacharya, Gaurinath Shastri
Publisher: Sampurnanand Sanskrut Vishvavidyalaya Varanasi

View full book text
Previous | Next

Page 175
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir आत्मवैधर्म्यम् दुःखं तयोः प्राप्तिपरिहारौ तद्योग्याभ्यां तत्समर्थाभ्यामिति । व्याप्तिप्रतिपादनार्थमाह * ( यथा ) रथकर्मणा सारथी रथस्याधिष्ठाता तद्वदात्मा विग्रहस्य शरीरस्याविष्ठाताSनुमीयते । तथा हि जीवच्छरीरम्, प्रयत्नवदधिष्ठितम् जीवच्छरीरसमवायिहिताहितप्राप्तिपरिहारसमर्थप्रवृत्तिनिवृत्त्याश्रयत्वात् रथवत् । प्रवृत्तिनिवृत्त्याश्रयत्वं वाय्वादौ व्यभिचरतीति हिताहितप्राप्तिपरिहारसमर्थपदम् । तथा शाखायन्त्रनिपीडितस्य प्राणिनः शाखाकर्म अहितनिवर्तकम्, अधस्तनस्य फलादिप्राप्ते हितप्रापकञ्चेति तदर्थं शरीरसमवायिपदम् । तथापि नदीस्रोतः पतितश्वकर्मणा व्यभिचारः । तदप्यधस्तनस्य' शुनस्तदुपयोगात् सुखं भक्ष्यत इति सुखप्रापकम्, उपरिष्टाच्च स्नानं कुर्वतस्तपस्विनो दुर्गन्धतया दुःखं जनयतीति तन्निवर्तकञ्चेति तदर्थं जीवच्छरीरपदम् । नन्वेवमपीदं विशेषणं विपक्षादिव सपनादेरपि रथादेनिर्वृत्ति दर्शयतीत्यसाधारणत्वमेव स्यात् । न हि रथे जीवच्छरीसमवेत क्रियाश्रयत्वमस्ति । अथ जीवच्छरीरसमवायिहिताहितप्राप्तिपरिहारयोग्या क्रिया, प्रयत्नवत् कार्या, विशिष्टक्रियात्वात्, रथक्रियावद इति । इहापि न सविशेषणस्य हेतोः सपक्षसद्भावः । तथा सुप्तस्य नावारूढस्य यथोक्तविशेषणक्रिया अभिप्रेतेन प्राप्तिहेतुः अहितेन निवृत्तिहेतुश्च, न च प्रयत्नवत्कार्येति व्यभिचारः । तस्माद् इच्छानुविधायिक्रियाश्रयत्वं हेतुरिति । तथाहि जीवच्छरीरम्, प्रयत्नवदधिष्ठितम्, इच्छानुविधायिक्रियाश्रयत्वात्, ( द्रव्यवत् ? ) रथवत् । क्रिया वा प्रयत्नवत् कार्या, इच्छानुविधायिक्रियात्वात्, रथक्रियावत् । तथा प्राणादिभिश्चेति । " प्राणापाननिमेषोन्मेषजीवनमनोगतीन्द्रियान्तरविकाराः सुखदुःखेच्छाद्वेषप्रयत्नाश्चात्मलिङ्गानि ” ( वै. सू. ३१२३४ ) इति सूत्रं दर्शयति । अथात्मना सार्धमनुपलब्धेः कथमेषां गमकत्वमित्याह शरीरपरिगृहीते वायौ विकृतकर्मदर्शनाद् भस्त्राध्मापयितेव अनुमीयत इति । व्याप्तिप्रतिपादनमेतत् । प्रयोगस्तु जीवच्छरीरम्, प्रयत्नवदधिष्ठितम्, जीवच्छरीरपरिगृहीत [ विकृत ] वाय्वाश्रयत्वात्, भस्त्रावत् । वाय्वाश्रयत्वमन्येषामप्यस्तीति विकृतग्रहणम् । विकारस्तु तिर्यग्गतिशीलस्य वायोर्यदेतद् ऊर्ध्वमधश्च गमनम् । तथापि वायुर्वाय्वन्तरेण प्रतिहत ऊर्ध्वं गच्छतीति परिगृहीतपदम् । तथा ह्यन्तः सुषिरवृक्षे छिद्रप्रदेशेन प्रविष्टस्य वायोरूर्ध्वमधश्च गमनं सम्भवतीति शरीरपदम् । तथापि शुष्कानुबद्धशरीरे प्रविष्टस्य विकार: सम्भवतीति जीवग्रहणम् । For Private And Personal Use Only १४७ 5 10 15 20 25

Loading...

Page Navigation
1 ... 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226