Book Title: Vyomvati Part 01
Author(s): Vyomshivacharya, Gaurinath Shastri
Publisher: Sampurnanand Sanskrut Vishvavidyalaya Varanasi

View full book text
Previous | Next

Page 177
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org आत्मनैधर्म्यम् Acharya Shri Kailassagarsuri Gyanmandir यच्चेदं पादप्रसारणादि तद् अयसोऽयस्कान्ताभिसर्पणवद् वस्तुस्वाभाव्याद् भविष्यतीति । आगमस्तु सुलभत्वादुपचारेणापि व्याख्यातुं शक्यत एवेत्यनैकान्तिकत्वमेव । अथ तदधिष्ठायकस्य सद्भावान्नानैकान्तिकत्वमिति चेत्, न । तस्य लोष्टादिष्वपि सद्भावेन वृद्धिक्षतभग्नसंरोहणादिप्रसङ्गात् । तदेतत् सर्वमसाम्प्रतम् । वृक्षादेरपि पक्षान्तर्भावात् । न च साध्येनैव साधनस्य व्यभिचारः, नापि सूत्रव्याघातस्तत्रापि प्रवृत्तिनिवृत्त्योः सद्भावात् । तथा च द्रव्यसन्निधाने च पादप्रसारणम्, न वस्तुस्वाभाव्यात्, शरीरेऽपि तद्भावप्रसङ्गात् । नियतद्रव्याभिलाषश्च वृक्षायुर्वेदे परिपठितस्तेषां ज्ञायते, तदुपभोगे पुष्पादिदर्शनात् । आगमस्य चौपचारिकत्वमयुक्तम्, मुख्ये बाधकानुपपत्तेरित्यलम् । अथ वालुकादिनिचयेषु प्रयत्नं विनापि वृद्धेरुपलम्भाद् व्यभिचारः ? न । ईश्वरप्रयत्नस्य तत्रापि सद्भावाभ्युपगमात् । तस्यापि पक्षेऽन्तर्भावाच्छरीरवत् पुरुषगुणपूर्वकत्वं साधनीयमिति । तथा * अभिमतविषयग्राहककरणसम्बन्धनिमित्तेन मनः कर्मणा गृहकोणेषु पेलकप्रेरक इव दारकः * आत्मानुमीयत इति व्याप्तिप्रतिपादनमेव । यथा हि गृहे दारकः पेलकैः संक्रीडमानो हस्तस्थितपेलकेन मध्यस्थपेलकमभिहत्य पेलकान्तरेण सम्बन्धयति तद्वद् आत्मापि शरीरे मनसा चक्षुरादिकमभिहत्य विषयः संयोजयतीति । तथा चाभिमतश्चासौ विषयश्च रूपादिस्तद्गृह्णातीति तदुग्राहकम् । तच्च ग्रहणं चक्षुरादि, तेन सह सम्बन्धः, तन्निमित्तेन मनः कर्मणा ज्ञायते । प्रयोगस्तु जीवच्छरीरम्, प्रयत्नवदधिष्ठितम्, अभिमतविषयग्राहककरणाधारत्वात्, गृहवत् । मनो वा प्रयत्नप्रेर्यम्, अभिमत विषयग्राहककरणसम्बन्धित्वात्, हस्तस्थितपेलकवत् । मनः कर्म वा प्रयत्नवत्कार्यम्, अभिमतविषयग्राहककरणसम्बन्धिकर्मत्वात्, हस्तस्थितपेलककर्मवत् । मनसो वा चक्षुरादिसम्बन्धः, प्रयत्नवत् कार्यः अभिमतविषयग्राहककरणसम्बन्धत्वात्, पेलकान्तरसम्बन्धिसम्बन्धवत् । चक्षुरादयो वा प्रयत्नवत् प्रेर्याः, अभिमत विषयग्राहककरणत्वात्, पेलकान्तरवत् । विषयसम्बन्धो वा प्रयत्नवत् कार्य:, अभिमतविषयग्राहककरणसम्बन्धिसम्बन्धत्वात् कोणस्थितपेलकसम्बन्धवत् । तथा नयनविषयालोचनानन्तरं रसानुस्मृतिक्रमेण रसनविक्रियादर्शनाद अनेक गवाक्षान्तर्गत प्रेक्षकवद् उभयदर्शी कश्चिद् [ एकः ] विज्ञायते इति व्याप्ति For Private And Personal Use Only १४९ 5 10 15 20 25

Loading...

Page Navigation
1 ... 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226