Book Title: Vyomvati Part 01
Author(s): Vyomshivacharya, Gaurinath Shastri
Publisher: Sampurnanand Sanskrut Vishvavidyalaya Varanasi
View full book text ________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मनोवैधय॑म् अथेन्द्रियाणां स्वविषयैः सम्बन्धः कथं ज्ञायते ? अनुमानात् । तथाहि, घ्राणम्, स्वव्याप्तसं योगिना संयुक्तम्, तत्संयुक्तव्यापकत्वान्, यो यः संयुक्त व्यापकः स स्वव्याप्तसंयोगिसंयुज्यमानो दृष्टः, यथा वीरणसंयुक्ततन्तुव्यापकः पटो वोरणेन संयुक्त इति । स्थानसंयुक्तं वा कर्पूरादिद्रव्यम्, स्वसंयुक्तव्यापिना संयुज्यते, तद्व्याप्तसंयोगित्वात्, यो यद्व्याप्तसंयोगी स स्वसंयुक्तव्यापिना संयुज्यमानो दृष्टः, यथा पटव्याप्ततन्तुसंयोगिवीरणं पटेन संयुज्यमानमिति ।
एवं रसनेन्द्रियम्, स्वव्याप्तसंयोगिना संयुक्तम्, तत्संयुक्तव्यापकत्वात्, वीरणसंयुक्ततन्तुव्यापकपटवत् । स्थानसंयुक्तं वा द्रव्यम्, स्वसंयुक्तव्यापिना संयुज्यते, तद्व्याप्तसंयोगित्वात्, पटव्याप्ततन्तुसंयोगि-वीरणादिवदिति । एवं शेषेल्वपीति ।। गीतध्वनिस्तु सन्निहितस्य तच्छ्वणसातत्येन श्रोत्रसम्बन्धे एव ।
यतावत् कारणं ज्ञानसुखदुःखानाम्, तत्सद्भावेऽनुत्पत्तिनं स्यात् । न हि कारणसाकल्येऽपि कार्यस्यानुत्पत्तिदृष्टेति । तस्मादेषां सद्भावेऽपि कार्यस्य' पूर्वम् अभूत्वा पश्चादुत्पत्तिदर्शनात् कारणान्तरमनुमीयते। यस्य सद्भावासद्भावाभ्यां कार्यस्योत्पत्त्यनुत्पत्ती। अथादृष्टोऽस्यामेव कारणं भविष्यतीति । न । श्रोत्रादीनामप्यभावप्रसङ्गात् । तस्यापि चेदानीं तत्साधनस्याननुष्ठानाच्चिरोत्पादे स एव दोषः ।
___ तदेवमात्मेन्द्रियार्थाः, कारणान्तरापेक्षाः, सद्भावेऽप्यनुत्पाद्योत्पादकत्वात्, ये हि सद्भावेऽपि कार्यमनुत्पाद्य पश्चादुत्पादयन्ति ते सापेक्षाः, यथा तन्त्वादयोऽन्यतन्तुसंयोगा पेक्षा इति । अन्ये त्वात्मा, क्रमवत्कारणापेक्षः, इतरसाकल्येऽपि क्रमेण कार्यजनकत्वात्, यो हीतरकारणसाकल्येऽपि क्रमेण कार्य करोति स क्रमवत् कारणापेक्षः, यथा अनेकशिल्पाभिज्ञः पुरुष इति । चक्षुरादयो वा क्रमवत्कारणापेक्षाः, सद्भावेऽपि क्रमेण कार्यजनक- 20 त्वात, यो हि विद्यमानः क्रमेण कार्यं करोति सोऽवश्यं क्रमवत्कारणमपेक्षते, यथा वासीकर्तर्यादि हस्तमित्यनुमान ब्रुवते ।
तथा आत्मा इन्द्रियार्थसान्निध्येऽनि क्रमेणैव कार्य करोतीति दृष्टम् । एवं चक्षुरादयोऽप्यात्मनाधिष्ठिता विषयसम्बन्धक्रमेणैव' कार्यं कुर्वन्तीति क्रमवत्कारणमपेक्षन्ते । तथा * श्रोत्राद्यव्यापारे स्मृत्युत्पत्तिदर्शनात् ५ अस्ति करणान्तरम् । तथाहि 25 स्मृतिः, करणजन्या, क्रियात्वात्, छिदिक्रियावत् । न च श्रोत्रायेव करणम्, तदव्यापारेऽपि स्मृत्युत्पत्तिदर्शनात्, यद् यदव्यापारेऽप्युत्पद्यते तत् तस्य कार्यं न भवत्येव,
For Private And Personal Use Only
Loading... Page Navigation 1 ... 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226