Book Title: Vyomvati Part 01
Author(s): Vyomshivacharya, Gaurinath Shastri
Publisher: Sampurnanand Sanskrut Vishvavidyalaya Varanasi

View full book text
Previous | Next

Page 188
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १५९ मनोवैधर्म्यम् अभिघातास्तु करणानीत्यन्ये । तथा हि कुठारस्य' तृणैः सम्बन्धाः वेगापेक्षा अवयवाः परस्परं विभिन्ना एव । नैतद्युक्तम् । कर्मणा सम्बद्धस्यैव कुठारस्य करणत्वात् । अन्यथा हि चक्षुषोऽपि सम्बन्धिभेदात् सम्बन्धभेदोपपत्तेस्तेषामपि करणत्वेन चक्षुरेण मनसाधिष्ठितत्वाद् यगपद् घटादिज्ञानोत्पत्तिप्रसङ्गः । न चैतदस्ति, असंवेदनादिति । तस्माद् युगपत् प्रकाशनमेव बटादीनां न ग्रहणानीति । चक्षुरनेकपदार्थसम्बद्धं करणमिति 5 न्याय्यम् । अतः करणस्यैकक्रियानिवृत्तौ सामर्थ्यम् । सिद्धे च नानात्वे तदनुविधानात् साहचर्यान्नानापृथक्त्वं सिद्ध्यत्येव । तथा * तदभावचनाद गुपरिमाणम्, इति "विभवान्महानाकाशस्तथा चात्मा । तदभावादणु मनः' (वै० सू० ७।१।२२-२३ ) इति सूत्रे दर्शयति । तस्य विभुत्वस्याभावदणु मन इति । ___10 नन्वेवं घटादावपि विभुत्वस्याभावादणुत्वं स्यात् । न। नित्यद्रव्यस्येति विशेषणात् । तथा हि मनः, अणुपरिमाणसम्बन्धि, नित्यद्रव्यत्वे सति विभुत्वरहितत्वात्, यद् यन्नित्यद्रव्यत्वे सति विभुत्वरहितं तत् तथा दृष्टम्, यथा परमाण्वादिः, तथा चेदं विभुत्वरहितम्, तस्मादणुपरिमाणमिति । घटादौ विभुत्वरहितत्वेऽपि नागुपरिमाणमिति नित्यत्वग्रहणम, नित्यत्वं गुणादावप्यस्तीति द्रव्यपदम् । ___ तथा * अपसर्पणोपसर्पणवचनात् संयोगविभागौ * इति । 'अपसर्पणमुपसर्पणमशितपीतसंयोगाः कार्यान्तरसंयोगाश्चेत्यदृष्टकारितानि" (वै० स० ५१२।१७ ) इति सूत्रं दर्शयति । अपसर्पणन्तु मृतशरीराद् विभागार्थ कर्म। प्रत्यग्रेण शरीरेण संयोगार्थञ्चोपसर्पणमिति । अशितपीतम् भुक्तमुदकादि तयोर्नाड्यन्तरेण सञ्चरणम्, कार्यान्तरं शरीरान्तरम्, तेन संयोगो मनसः, तदर्थं मनःकर्म योगिनामित्येतत् सर्वमदृष्टकारित- 20 मित्यन्यपरेणापि सूत्रेण संयोगविभागायुक्तौ। तथा * मूतत्वात् परत्वापरत्वे * तयोमूर्त्यनुविधानात् । यत्र हि मूर्त्तत्वं तत्र तदर्शिनः परापरव्यवहारः सम्भवतीति । दिक्कृते तु परत्वापरत्वे मनसि, कालकृतयोनित्यत्वेनासम्भवात् । कार्यद्रव्यापेक्षया तु तदशिनः कालकृतं परत्वं मनसि सम्भाव्यत एव । परं मनः, अपरञ्च कार्यद्रव्यमिति । न चायं नियमः समानजातीययोरेव परापरव्यवहारस्य दृष्टत्वात् । तथा न 25 परं परत्वापरत्वे * संस्कारश्च * मूर्त्तत्वादेव वेगाख्यः । अथ मनः परस्परेण सम्बद्धं किमिति द्रव्यं नारभते ? समानजातीयमूर्त्तद्रव्यसम्बन्धस्य' अन्त्यावयविव्यतिरेकेण द्रव्यारम्भकत्वदर्शनादित्याह * अस्पर्शवत्त्वाद् द्रव्या And 10 For Private And Personal Use Only

Loading...

Page Navigation
1 ... 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226