________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१५९
मनोवैधर्म्यम् अभिघातास्तु करणानीत्यन्ये । तथा हि कुठारस्य' तृणैः सम्बन्धाः वेगापेक्षा अवयवाः परस्परं विभिन्ना एव । नैतद्युक्तम् । कर्मणा सम्बद्धस्यैव कुठारस्य करणत्वात् । अन्यथा हि चक्षुषोऽपि सम्बन्धिभेदात् सम्बन्धभेदोपपत्तेस्तेषामपि करणत्वेन चक्षुरेण मनसाधिष्ठितत्वाद् यगपद् घटादिज्ञानोत्पत्तिप्रसङ्गः । न चैतदस्ति, असंवेदनादिति । तस्माद् युगपत् प्रकाशनमेव बटादीनां न ग्रहणानीति । चक्षुरनेकपदार्थसम्बद्धं करणमिति 5 न्याय्यम् । अतः करणस्यैकक्रियानिवृत्तौ सामर्थ्यम् । सिद्धे च नानात्वे तदनुविधानात् साहचर्यान्नानापृथक्त्वं सिद्ध्यत्येव ।
तथा * तदभावचनाद गुपरिमाणम्, इति "विभवान्महानाकाशस्तथा चात्मा । तदभावादणु मनः' (वै० सू० ७।१।२२-२३ ) इति सूत्रे दर्शयति । तस्य विभुत्वस्याभावदणु मन इति ।
___10 नन्वेवं घटादावपि विभुत्वस्याभावादणुत्वं स्यात् । न। नित्यद्रव्यस्येति विशेषणात् । तथा हि मनः, अणुपरिमाणसम्बन्धि, नित्यद्रव्यत्वे सति विभुत्वरहितत्वात्, यद् यन्नित्यद्रव्यत्वे सति विभुत्वरहितं तत् तथा दृष्टम्, यथा परमाण्वादिः, तथा चेदं विभुत्वरहितम्, तस्मादणुपरिमाणमिति । घटादौ विभुत्वरहितत्वेऽपि नागुपरिमाणमिति नित्यत्वग्रहणम, नित्यत्वं गुणादावप्यस्तीति द्रव्यपदम् ।
___ तथा * अपसर्पणोपसर्पणवचनात् संयोगविभागौ * इति । 'अपसर्पणमुपसर्पणमशितपीतसंयोगाः कार्यान्तरसंयोगाश्चेत्यदृष्टकारितानि" (वै० स० ५१२।१७ ) इति सूत्रं दर्शयति । अपसर्पणन्तु मृतशरीराद् विभागार्थ कर्म। प्रत्यग्रेण शरीरेण संयोगार्थञ्चोपसर्पणमिति । अशितपीतम् भुक्तमुदकादि तयोर्नाड्यन्तरेण सञ्चरणम्, कार्यान्तरं शरीरान्तरम्, तेन संयोगो मनसः, तदर्थं मनःकर्म योगिनामित्येतत् सर्वमदृष्टकारित- 20 मित्यन्यपरेणापि सूत्रेण संयोगविभागायुक्तौ। तथा * मूतत्वात् परत्वापरत्वे * तयोमूर्त्यनुविधानात् । यत्र हि मूर्त्तत्वं तत्र तदर्शिनः परापरव्यवहारः सम्भवतीति । दिक्कृते तु परत्वापरत्वे मनसि, कालकृतयोनित्यत्वेनासम्भवात् । कार्यद्रव्यापेक्षया तु तदशिनः कालकृतं परत्वं मनसि सम्भाव्यत एव । परं मनः, अपरञ्च कार्यद्रव्यमिति । न चायं नियमः समानजातीययोरेव परापरव्यवहारस्य दृष्टत्वात् । तथा न 25 परं परत्वापरत्वे * संस्कारश्च * मूर्त्तत्वादेव वेगाख्यः ।
अथ मनः परस्परेण सम्बद्धं किमिति द्रव्यं नारभते ? समानजातीयमूर्त्तद्रव्यसम्बन्धस्य' अन्त्यावयविव्यतिरेकेण द्रव्यारम्भकत्वदर्शनादित्याह * अस्पर्शवत्त्वाद् द्रव्या
And
10
For Private And Personal Use Only