________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१६०
व्योमवती
5
नारम्भकत्वम् * इति। स्पर्शवतो हि द्रव्यस्य' द्रव्यारम्भकत्वदर्शनात्, यथा परमाणूनाम्। न च मनसः स्पर्शवत्वे प्रमाणमस्ति, मनस्त्वजातीयस्य स्पर्शवत्कार्यस्यानुपलब्धः। यथा हि पृथिवीत्वजातीयं स्पर्शवत्कार्य नुपलभ्यमानं तदारम्भकाणामणूनां स्पर्शवत्तां ज्ञापयति, नैवं मनस्त्वजातीयं कार्यमस्तीति कथं मनसः स्पर्शवत्त्वम् ? तथा स्पर्शवत्त्वे सति शरीरे सञ्चरतो वायोरिव प्रतिसञ्चलनात् क्वचिदिन्द्रियान्तरेणासम्बन्धाद् अनेककालं रूपादेविषयस्याग्रहणमपि स्यात् । न चैतत् सुषुप्त्यवस्थामन्तरेण दृष्टमिति । तस्माद अस्पर्शवत्त्वेन द्रव्यानारम्भकत्वमिति ।
____ अगुपरिमाणव्यवस्थापनात् सिद्धेऽपि मूर्त्तत्वे पुनः साधनमाह ॐ क्रियावत्त्वा
न्मूर्त्तत्वम् % इति । तदनुविधानात् क्रियायाः। सा चेन्द्रियसम्बन्धाद् विज्ञायते । १७ अन्यथा हि अगुपरिमाणं मनः कथमिन्द्रियान्तरेण सम्बध्यते।
पूर्वं मनश्चैतन्यप्रतिषेधेऽपि पुनधिकमाह * साधारणविग्रहवत्त्वप्रसङ्गादज्ञत्वम् * इति । यदि हि चेतन मनः स्यादुमयाः साधारणं शरीर तुपभोग्यमिति विरुद्धाभिप्रायत्वे भोगानुपपत्तिः स्यात् ।
अथ किं स्वार्थं परार्थं वेत्याह * करणभावात् पारार्थ्यम् * इति । करणं हि वास्यादि परपुरुषार्थसम्पादक दृष्टम्। तथा च करणं मनः, तस्मात् कर्तुरात्मनः पुरुषार्थसम्पादकमिति । अथ किं द्रव्यं गुणः कर्म वा मन इत्याह * गुणवत्त्वाद् द्रव्यम् * इति । क्षित्यादिवत् । गुणास्तूक्ता एव ।
अथ अगुपरिमाणत्वान्मनसः कथं रूपादिज्ञानान्याशूत्पद्यन्त इत्याह * आशुसञ्चारि । तच्च * प्रयत्नादृष्टपरिग्रहवशात् ॐ । प्रयत्नेन जीवनपूर्वकेणादृष्ट20 विशेषेण च परिग्रहवशादाशुसञ्चारित्वमिति ।
इति श्रीव्योमशिवाचार्यविरचितायां पदार्थधर्मसङ्ग्रहटीकायां व्योमक्त्यां
द्रव्यपदार्थः।
For Private And Personal Use Only