Book Title: Vyomvati Part 01
Author(s): Vyomshivacharya, Gaurinath Shastri
Publisher: Sampurnanand Sanskrut Vishvavidyalaya Varanasi

View full book text
Previous | Next

Page 187
________________ Shri Mahavir Jain Aradhana Kendra १५८ 5 10 15 2; 25 www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्योमवती यथा विनष्टेषु तन्तुत्पद्यमानो घट इति । स्मृतिस्तु बधिरादीनां श्रोत्राद्यव्यापारेऽलवत इति न तव । अतः करणारेण भवितव्यम् । तथा * बाह्येन्द्रियैरगृहीतसुखादिप्राह्यान्तरसद्भावाच्च * करणान्तरमस्ति । तथा हि सुखादयः, करणपरिच्छेद्याः, ग्राह्यत्वात्, रूपादिवत् । न च चक्षुराद्यैव करण न बाह्येन्द्रियैरगृहीतस्य सुखादेग्रह्यान्तरस्य सद्भावादित्यभिधानात् । यथा चक्षुषा गन्धो न गृह्यत इति करणान्तरं घ्राणमनुमीयते । ताभ्याञ्च रसस्यापरिच्छेदाद् रसनानुमानम् । तैश्च स्पर्शस्य तथा शब्दस्य चेति करणान्तरानुमानमिति । तद्वद् बाह्येन्द्रियैः सुखादयो न गृह्यन्त इति तत्परिच्छेदकं मनोऽनुमीयते । सिद्धे च मनः सद्भावे द्रव्यत्वसमवायिकारणत्वप्रतिपादनार्थं तस्य गुणाः संख्यापरिमाणपृथक्त्वसंयोग विभाग परत्वापरत्व संस्काराः * इति वाक्यम् । द्रव्यत्वादेव संख्यासद्भावसिद्धौ किमेकमनेकं वे संशये तन्निरासार्थमाह प्रयत्नज्ञानायौगपद्यवचनात् प्रतिशरीरमेकत्वं सिद्धम् इति "प्रयत्नायौगपद्याज्ज्ञानयोग पद्यवचनाच्च प्रतिशरीरमेकं मनः” (वै० सू० ३।२।२) इति सूत्रं दर्शयति । असमासकरणश्चात्र सुखदुःखाद्ययौगपद्यावरोत्रार्थम् । सूत्रार्थस्तु नैकमनेकस्मिञ्छरीरे, नाप्येकस्मिन्ननेकं वा मनः । किं तर्हि ? प्रतिशरीरमेकम् । कुतः ? प्रयत्नायोगपद्यात् ज्ञानायौगपद्याच्च । यदि पुनरेकं स्याद्व्यापकं मनः सर्वेन्द्रियाणां तदविष्ठितत्वाद् युगपद् रूपादिज्ञानान्युत्पद्येरन् प्रयत्नाश्चेति । न चैवं दृष्टम् । उत्पलपत्रशत अथ दीर्घशष्कुलीं भक्षयतः कपिलब्रह्मणो युगपत् पञ्च ज्ञानान्युत्पद्यन्ते । तथा अध्यापकस्य युगपद् वाक्योच्चारण-गमन-मार्गान्वेषण- कमण्डलुधारणेषु प्रयत्ना उत्पद्यन्त इत्यसिद्धमेतत् । तन्न । यौगपद्ये प्रसिद्धोदाहरणाभावात् । व्यतिभेदाभिमानवद् आशुभावित्वेन यौगपद्याभिमानो द्रष्टव्यः । क्रमे त्वनेकं प्रसिद्धमुदाहरणमस्ति । तस्माच्णुपरिमाणस्य मनसः क्रमेणेन्द्रियसम्बन्धात् क्रमेणैव ज्ञानानि भवन्तीति युक्तम् । अगुपरिमाणस्याप्येकस्मिन् शरीरेऽनेकत्वाभ्युपगमे किञ्चिदिन्द्रियं केनचिन्मनसाधिष्ठितमिति ज्ञानयोगपद्यमेव स्यात् । क्रमेण तु ज्ञानान्युत्पद्यमानानि संवेद्यन्त इति प्रतिशरीरमगुपरिमाणमेकं मनः । न चैवमपि मनसा चक्षुरधिष्ठित मनेकार्थसम्बद्धं युगपज्ज्ञानान्युत्पादयेत् । नैतदेवम् । एकस्य करणस्यैकक्रियानिर्वृत्तौ सामर्थ्योपलब्धेः । न ह्येकं करणमेकस्मिन् कालेऽनेका क्रियां कुर्वद् दृष्टमिति । अथ कुठाराभिघातादनेकतृणेषु युगपदनेकक्रियोपलब्धेरयुक्तमेतत् । न । बोधात्मकत्वेन विशेषितत्वात् । यद्वा कुठारावयवानां करणत्वम्, यथा तीक्ष्णोऽवयवी तृणैः सम्बद्धस्तथा तदवयवास्तैः सम्बद्धा एवेति करणबहुत्वाद् युक्तं क्रियायोगपद्यम् । For Private And Personal Use Only

Loading...

Page Navigation
1 ... 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226