Book Title: Vyomvati Part 01
Author(s): Vyomshivacharya, Gaurinath Shastri
Publisher: Sampurnanand Sanskrut Vishvavidyalaya Varanasi

View full book text
Previous | Next

Page 185
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १५६ व्यामवती अतो व्यापकत्वाच्च परममहत्त्वम् । तया योगो खलु ऋद्धी प्रादुर्भूतायां सेन्द्रियाणि शरीराणि निर्माय युगपद् भोगानुपभुङ्क्ते इति श्रूयते, तच्च विभावात्मन्युपपद्यते नाव्यापके इति । तथा * सुखादीनां सन्निकर्षजत्वात् संयोगः ४ सिद्धः। सुखादयो हि कार्यत्वादसमवाधिकारणमपेक्षन्ते । न चान्यत् सम्भवतीत्यात्मान्तःकरणसंयोगः सिद्धः । स च कृतकत्वादवश्यं विनाशीत्याश्रयविनाशाभावाद् विभागादेव विनश्यतीति विभागः सिद्धः। मनस्त्वयोगान्मनः । सत्ययात्मेन्द्रियार्थसानिध्ये ज्ञानसुखदुःखानामभूत्वोत्पत्तिदर्शनात् करणान्तरमनुमीयते। श्रोत्राद्यव्यापारे 10' स्मृत्युत्पत्तिदर्शनाद् बाह्येन्द्रियैरगृहीतसुखादिग्राह्यान्तरसद्भावाच्चान्त:करणम्। तस्य गुणाः संख्यापरिमाणपृथक्त्वसंयोगविभागपरत्वापरत्वसंस्काराः। प्रयत्नज्ञानायोगपद्यवचनात् प्रतिशरीरमेकत्वं सिद्धम् । पृथक्त्वमप्यत एव ! तदभाववचनादणुपरिमाणम् । अपसर्पणोपसर्पणवचनात् संयोगविभागौ । मूर्तत्वात् परत्वापरत्वे संस्कारश्च । अस्पर्शवत्वाद् द्रव्यानारम्भकत्वम् । क्रियावत्वान्मूत्तेत्वम् । साधारणविग्रहवत्वप्रसङ्गादज्ञत्वम् । करणभावात् पारार्थ्यम् । गुणवत्वाद् द्रव्यम् । प्रयत्नादष्टपरिग्रहवशाद् आशुसञ्चारि चेति । इदानीं मनसो लक्षणपरीक्षार्थं ४ मनस्त्वयोगान्मनः * इत्यादि प्रकरणम् । 20 मनस्त्वेन योगो मनस्त्वोपलक्षितः समवायो लक्षणमिति । तथाहि, मनः. इतरस्माद् भिद्यते, मनस्त्वयोगात्, यस्त्वितरस्मादमनसो न भिद्यते न चासौ मनस्त्वेन युक्तः, यथा क्षित्यादिरिति । व्यवहारो वा साध्यः । शेषं लक्षणस्य दूषणप्रतिसमाधानं पूर्ववज्ज्ञेयम् । तथा शब्दार्थनिरूपणपरत्वञ्चेति । अथ प्रत्यक्षेणानुपलब्धेर्मनसः सद्भावे कि प्रमाणम् ? अनुमानमित्याह 25 * सत्यप्यात्मेन्द्रियार्थसान्निध्ये ज्ञानसुखदु:खानाम् अभूत्वोत्पत्तिदर्शनात् * इति । तथा ह्यात्मा सर्वगतत्वादेव सर्वैरिन्द्रियैः सम्बद्धः। इन्द्रियाणि तु स्वविषयैरिति । तथापि न युगपद् रूपादिज्ञानान्युत्पद्यन्त इति * करणान्तरमनुमीयते * । For Private And Personal Use Only

Loading...

Page Navigation
1 ... 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226