SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मनोवैधय॑म् अथेन्द्रियाणां स्वविषयैः सम्बन्धः कथं ज्ञायते ? अनुमानात् । तथाहि, घ्राणम्, स्वव्याप्तसं योगिना संयुक्तम्, तत्संयुक्तव्यापकत्वान्, यो यः संयुक्त व्यापकः स स्वव्याप्तसंयोगिसंयुज्यमानो दृष्टः, यथा वीरणसंयुक्ततन्तुव्यापकः पटो वोरणेन संयुक्त इति । स्थानसंयुक्तं वा कर्पूरादिद्रव्यम्, स्वसंयुक्तव्यापिना संयुज्यते, तद्व्याप्तसंयोगित्वात्, यो यद्व्याप्तसंयोगी स स्वसंयुक्तव्यापिना संयुज्यमानो दृष्टः, यथा पटव्याप्ततन्तुसंयोगिवीरणं पटेन संयुज्यमानमिति । एवं रसनेन्द्रियम्, स्वव्याप्तसंयोगिना संयुक्तम्, तत्संयुक्तव्यापकत्वात्, वीरणसंयुक्ततन्तुव्यापकपटवत् । स्थानसंयुक्तं वा द्रव्यम्, स्वसंयुक्तव्यापिना संयुज्यते, तद्व्याप्तसंयोगित्वात्, पटव्याप्ततन्तुसंयोगि-वीरणादिवदिति । एवं शेषेल्वपीति ।। गीतध्वनिस्तु सन्निहितस्य तच्छ्वणसातत्येन श्रोत्रसम्बन्धे एव । यतावत् कारणं ज्ञानसुखदुःखानाम्, तत्सद्भावेऽनुत्पत्तिनं स्यात् । न हि कारणसाकल्येऽपि कार्यस्यानुत्पत्तिदृष्टेति । तस्मादेषां सद्भावेऽपि कार्यस्य' पूर्वम् अभूत्वा पश्चादुत्पत्तिदर्शनात् कारणान्तरमनुमीयते। यस्य सद्भावासद्भावाभ्यां कार्यस्योत्पत्त्यनुत्पत्ती। अथादृष्टोऽस्यामेव कारणं भविष्यतीति । न । श्रोत्रादीनामप्यभावप्रसङ्गात् । तस्यापि चेदानीं तत्साधनस्याननुष्ठानाच्चिरोत्पादे स एव दोषः । ___ तदेवमात्मेन्द्रियार्थाः, कारणान्तरापेक्षाः, सद्भावेऽप्यनुत्पाद्योत्पादकत्वात्, ये हि सद्भावेऽपि कार्यमनुत्पाद्य पश्चादुत्पादयन्ति ते सापेक्षाः, यथा तन्त्वादयोऽन्यतन्तुसंयोगा पेक्षा इति । अन्ये त्वात्मा, क्रमवत्कारणापेक्षः, इतरसाकल्येऽपि क्रमेण कार्यजनकत्वात्, यो हीतरकारणसाकल्येऽपि क्रमेण कार्य करोति स क्रमवत् कारणापेक्षः, यथा अनेकशिल्पाभिज्ञः पुरुष इति । चक्षुरादयो वा क्रमवत्कारणापेक्षाः, सद्भावेऽपि क्रमेण कार्यजनक- 20 त्वात, यो हि विद्यमानः क्रमेण कार्यं करोति सोऽवश्यं क्रमवत्कारणमपेक्षते, यथा वासीकर्तर्यादि हस्तमित्यनुमान ब्रुवते । तथा आत्मा इन्द्रियार्थसान्निध्येऽनि क्रमेणैव कार्य करोतीति दृष्टम् । एवं चक्षुरादयोऽप्यात्मनाधिष्ठिता विषयसम्बन्धक्रमेणैव' कार्यं कुर्वन्तीति क्रमवत्कारणमपेक्षन्ते । तथा * श्रोत्राद्यव्यापारे स्मृत्युत्पत्तिदर्शनात् ५ अस्ति करणान्तरम् । तथाहि 25 स्मृतिः, करणजन्या, क्रियात्वात्, छिदिक्रियावत् । न च श्रोत्रायेव करणम्, तदव्यापारेऽपि स्मृत्युत्पत्तिदर्शनात्, यद् यदव्यापारेऽप्युत्पद्यते तत् तस्य कार्यं न भवत्येव, For Private And Personal Use Only
SR No.020943
Book TitleVyomvati Part 01
Original Sutra AuthorN/A
AuthorVyomshivacharya, Gaurinath Shastri
PublisherSampurnanand Sanskrut Vishvavidyalaya Varanasi
Publication Year
Total Pages226
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy