Book Title: Vyomvati Part 01
Author(s): Vyomshivacharya, Gaurinath Shastri
Publisher: Sampurnanand Sanskrut Vishvavidyalaya Varanasi
View full book text ________________
Shri Mahavir Jain Aradhana Kendra
१५२
5.
10
15
www.kobatirth.org
25
Acharya Shri Kailassagarsuri Gyanmandir
व्योमवती
विशेषगुणास्ते बाह्येन्द्र प्रत्यक्ष रूपादय इति । गुरुत्वादीनान्तु बाह्येन्द्रियाप्रत्यक्षत्वेऽपि न शरीरेन्द्रियविशेषगुणत्वमिति व्यभिचाराभावः । बाह्येन्द्रियप्रतिषेधेन चान्तःकरणप्रत्यक्षत्वं विवक्षितमिति । तथा शरीरविशेषगुणाश्च प्रत्यक्षाः । न चैवं सुखादय इति । अथ त्रिगुणात्मकत्वात् सर्वं सुखदुःखादिसमन्वितमिति नात्मविशेषगुणत्वम्, न । त्रिगुणात्मकत्वप्रतिषेधस्य वक्ष्यमाणत्वात् प्रधानप्रतिषेवावसरे ।
यथा च सुखदुःखादिभिर्गुणैः तथाहं शब्देनापि आत्मा ज्ञायत इति । 'अहम्' शब्द (बाह्या) [? अ] बाधितैकपदत्वादवश्यं वाच्यमपेक्षते । न च पृथिव्याद्येवाभिधेयम् * पृथिव्यादिशब्दव्यतिरेकाद्वैयधिकरण्यमिति । यदि पुनः पृथिव्यादिकमर्थमभिदध्याद 'अहम्' इति शब्दः तच्छब्देन सामानाधिकरण्यं स्याद् 'अहं पृथिवी' 'अहमुदकम् ' इत्यादि । न चैतद् दृष्टम् । तस्मादात्मन्येव 'अहम्' इति शब्दस्य प्रवृत्तिर्युक्तेति । विषयान्तरे हि प्रवर्तमानः शब्दो नार्थान्तरमभिधत्ते इत्यबाधितैकपदम् । अथ शब्दानां वाच्यवाचकभावानुपपत्तेर्निर्विषयत्वमस्येति चेत्, न । वाच्यवाचकभावस्य वक्ष्यमाणत्वात् ।
तदेवमात्मन्यवस्थिते तस्य द्रव्यत्व समवायिकारणत्व-अगिकैकदेश वृत्तिविशेषगुणत्वप्रतिपादनार्थं चतुर्दशगुणप्रतिज्ञा, तां दर्शयति तस्य गुणा बुद्धिसुखदुःखेच्छाद्वेषप्रयत्नधर्माधर्मसंस्कार संख्यापरिमाणपृथक्त्वसंयोगविभागाः * इति । एते तु सूत्रकारेण प्रतिपादिता इत्याह * आत्मलिङ्गाधिकारे बुद्ध्यादयः प्रयत्नान्ताः सिद्धाः इति ।
तथा धर्माधर्मावात्मान्तरगुणानामकारणत्व वचनात् इति 'आत्मगुणा20 नामात्मान्तरगुणेष्वकारणत्वाद" ( वै. सू. ६१५ ) इति सूत्रं दर्शयति । तथाहि दानधर्मः प्रतिग्रहधर्मः सम्पद्यत इत्यनयोः पूर्वापरभावनियमात् कार्यकारणभाव इत्याशङ्कापरिहारार्थमेतत् सूत्रम् आत्मान्तरगुणानामात्मान्तरगुणेष्वकारणत्वात् । धर्माधम चात्मगुणाविति नात्मान्तरगुणोत्पत्ती कारणं स्यात् । न ह्यात्मगुणात् सुखाद् आत्मान्तरे सुखम्, दुःखाच्च दुःखमुत्पद्यमानमुपलब्धम् ।
अथ दुहितरि वर्तमानं सुखं मातरि सुखसम्पादकं दृष्टमिति, अयुक्तमेतत् । न । तदनुभवेन तदुत्प [ पप ? ] तेः । तथा हि दुहितरि मुखप्रसादादिकमुपलभ्य
For Private And Personal Use Only
Loading... Page Navigation 1 ... 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226