SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra १५२ 5. 10 15 www.kobatirth.org 25 Acharya Shri Kailassagarsuri Gyanmandir व्योमवती विशेषगुणास्ते बाह्येन्द्र प्रत्यक्ष रूपादय इति । गुरुत्वादीनान्तु बाह्येन्द्रियाप्रत्यक्षत्वेऽपि न शरीरेन्द्रियविशेषगुणत्वमिति व्यभिचाराभावः । बाह्येन्द्रियप्रतिषेधेन चान्तःकरणप्रत्यक्षत्वं विवक्षितमिति । तथा शरीरविशेषगुणाश्च प्रत्यक्षाः । न चैवं सुखादय इति । अथ त्रिगुणात्मकत्वात् सर्वं सुखदुःखादिसमन्वितमिति नात्मविशेषगुणत्वम्, न । त्रिगुणात्मकत्वप्रतिषेधस्य वक्ष्यमाणत्वात् प्रधानप्रतिषेवावसरे । यथा च सुखदुःखादिभिर्गुणैः तथाहं शब्देनापि आत्मा ज्ञायत इति । 'अहम्' शब्द (बाह्या) [? अ] बाधितैकपदत्वादवश्यं वाच्यमपेक्षते । न च पृथिव्याद्येवाभिधेयम् * पृथिव्यादिशब्दव्यतिरेकाद्वैयधिकरण्यमिति । यदि पुनः पृथिव्यादिकमर्थमभिदध्याद 'अहम्' इति शब्दः तच्छब्देन सामानाधिकरण्यं स्याद् 'अहं पृथिवी' 'अहमुदकम् ' इत्यादि । न चैतद् दृष्टम् । तस्मादात्मन्येव 'अहम्' इति शब्दस्य प्रवृत्तिर्युक्तेति । विषयान्तरे हि प्रवर्तमानः शब्दो नार्थान्तरमभिधत्ते इत्यबाधितैकपदम् । अथ शब्दानां वाच्यवाचकभावानुपपत्तेर्निर्विषयत्वमस्येति चेत्, न । वाच्यवाचकभावस्य वक्ष्यमाणत्वात् । तदेवमात्मन्यवस्थिते तस्य द्रव्यत्व समवायिकारणत्व-अगिकैकदेश वृत्तिविशेषगुणत्वप्रतिपादनार्थं चतुर्दशगुणप्रतिज्ञा, तां दर्शयति तस्य गुणा बुद्धिसुखदुःखेच्छाद्वेषप्रयत्नधर्माधर्मसंस्कार संख्यापरिमाणपृथक्त्वसंयोगविभागाः * इति । एते तु सूत्रकारेण प्रतिपादिता इत्याह * आत्मलिङ्गाधिकारे बुद्ध्यादयः प्रयत्नान्ताः सिद्धाः इति । तथा धर्माधर्मावात्मान्तरगुणानामकारणत्व वचनात् इति 'आत्मगुणा20 नामात्मान्तरगुणेष्वकारणत्वाद" ( वै. सू. ६१५ ) इति सूत्रं दर्शयति । तथाहि दानधर्मः प्रतिग्रहधर्मः सम्पद्यत इत्यनयोः पूर्वापरभावनियमात् कार्यकारणभाव इत्याशङ्कापरिहारार्थमेतत् सूत्रम् आत्मान्तरगुणानामात्मान्तरगुणेष्वकारणत्वात् । धर्माधम चात्मगुणाविति नात्मान्तरगुणोत्पत्ती कारणं स्यात् । न ह्यात्मगुणात् सुखाद् आत्मान्तरे सुखम्, दुःखाच्च दुःखमुत्पद्यमानमुपलब्धम् । अथ दुहितरि वर्तमानं सुखं मातरि सुखसम्पादकं दृष्टमिति, अयुक्तमेतत् । न । तदनुभवेन तदुत्प [ पप ? ] तेः । तथा हि दुहितरि मुखप्रसादादिकमुपलभ्य For Private And Personal Use Only
SR No.020943
Book TitleVyomvati Part 01
Original Sutra AuthorN/A
AuthorVyomshivacharya, Gaurinath Shastri
PublisherSampurnanand Sanskrut Vishvavidyalaya Varanasi
Publication Year
Total Pages226
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy