________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
आत्मवैधय॑म्
अथ नित्यस्यानुपकारित्वाद् आत्मनः किमनुभवाद्यैः क्रियत इति चेत्, न किञ्चित् । अनुभवादेरेवोपकारित्वात्, तेन हि सताऽनुभविता स्मर्तेति व्यपदेशात् । तत्कार्यं वा तस्योपकारः। तथा चानुभवेन तस्य' संस्कारः क्रियते, तेन तु स्मरणमुपकारः, तेनापि स्वकार्यमित्युत्तरोत्तरमभ्यूह्यम् । न चानुभवादेराविर्भावतिरोभावाभ्याम् अनुभवितुस्तथाभावः, तद्व्यतिरेकात् । अथ व्यतिरेके कथमात्मनोऽनु- भवादिनन्यस्येति चेत्, तेन सम्बन्धात् । सम्बन्धस्य तु सम्बन्धान्तरानपेक्षस्यापि सम्बन्धिनिष्ठस्योपलब्धे प्यनवस्थेति वक्ष्यामः ।
5
न चान्यस्यानुभवोत्पादेऽन्यस्यानुभवितेति व्यपदेशो दृष्टः । अथानुभवादेरात्मन्यतिशयाधायकत्वासम्भवे व्यपदेशासम्भव इति चेत्, न । अस्यैवातिशयत्वात् तत्प्रागभावश्चानतिशयो निवर्तत इति। कारकसाकल्यञ्चातिशयस्तवैकल्यञ्चानतिशय 10 इत्युक्तपूर्वम् । न चाव्यतिरेकेऽतिशयः सम्भाव्यत इत्यलमतिविस्तरेण ।
तथा पूर्वोक्तः ॐ सुखदुःखेच्छाद्वेषप्रयत्नश्च गुणैर्गुण्यनुमीयते *। तथा हि सुखादयः, क्वचिदाश्रिताः, गुणत्वाद्, रूपादिवत् । अथ शरीरेन्द्रियगुणा भविष्यन्तीत्यत आह * ते च ( सुखादयः ) न शरीरेन्द्रियगुणाः * | कस्मादित्याह * अहङ्कारेणकवाक्यत्वाभावात् * इति । अहं प्रत्ययेनासमानाधिकरणत्वाद् विज्ञानवत्। ये तु 15 शरीरेन्द्रियगुणास्तेऽहङ्कारेण समानाधिकरणा न भवन्ति रूपादय इति ।
अथ 'रूपवानहम्' इति प्रत्ययदर्शनाद् युक्तमेव तत्, न । मुख्य बाधकसद्भावेनास्य गौणत्वात् । तथा च [ ? न ] अहम्' इति प्रत्ययालम्बनत्वं पूर्वमेवोक्तमिति शरीरगुणैरुपचरितमेव सामानाधिकरण्यम् । स्मरणज्ञानेन तु सामानाधिकरण्यम् 'अहं स्मर्ता' इति दृष्टम् । न च स्मरणं शरीरे समवेतमित्युक्तम्। इतश्च न शरीरेन्द्रियगुणाः 20 सुखादयः * प्रदेशवृत्तित्वात् * । विशेषगुणाश्चाश्रयव्यापका रूपादय' इति शरीरविशेषगुणप्रतिषेधै साध्ये न संयोगादिभिरनेकान्तः। तेषामपि च पक्षत्वात् । तथा न शरीरेन्द्रियविशेषगुणाः सुखादयः * यावद्रव्याभावित्वात् * शब्दवत् । ये तु तद्विशेषगुणास्ते यावद्रव्यभाविनो रूपादय इति । न च पार्थिवपरमाणुरूपादिभिर्व्यभिचारः, तेषामपि साध्याधिकरणतया सपक्षत्वात् । तथाहि, शरीरेन्द्रियविशेषगुणप्रतिषेधे 35 साध्ये तेऽपि संयोगादिवत् तविशेषगुणा [ न ] भवन्तीति सपक्षा एव । इतोऽपि न शरीरेन्द्रियविशेषगुणाः सुखादयः * बाह्येन्द्रियाप्रत्यक्षत्वात् * विज्ञानवत् । ये तु
For Private And Personal Use Only