________________
Shri Mahavir Jain Aradhana Kendra
१५०
5
15
20
www.kobatirth.org
25
अत्र तु ममेति प्रतिसंधानं सर्वत्रोपलब्धम् इत्येककर्तृकत्वं निश्चीयते भिन्न10 कर्तृकेषु ममेति प्रतिसन्धानव्यावृत्तेः । नहि देवदत्तादिषूत्पन्नाः स्मरणादयो यज्ञदत्तेन 'मम स्मरणं ममेच्छा' इति संवेद्यन्ते । इन्द्रियाणान्तु प्रतिनियतविषयत्वात् साहचर्या - नुपलब्धौ इन्द्रियान्तरेणोपलब्धेऽर्थे न स्यादिन्द्रियान्तरेण स्मरणम्, तदभावाद् रसनेन्द्रियस्य विकारासम्भव एव स्यात् । स चोपलब्ध इत्युभयदर्शी [ एकः ] ज्ञायते ।
Acharya Shri Kailassagarsuri Gyanmandir
व्योमवती
प्रतिपादनमेव । तथाहि, येन रूपादि विशिष्टर साविनाभावित योपलब्धं तस्य नयनविषयालोचनानन्तरमिति । नयनस्य विषयो रूपम् । तत्रालोचनाद् विज्ञानम् । तदनन्तरमविनाभूते रसेऽनुस्मृतिर्भवति । तत्क्रमेण रसनविक्रियेति रसानुस्मरणानन्तरं रसबुद्धिः । ततः प्रयत्ने सति मनसि क्रियाप्रबन्वाद् रसनेन्द्रियसम्बन्धः । तस्माद् रदनान्तर्गतोदक संप्लवलक्षणो विकारः सम्पद्यत इत्युत्पत्तिक्रम: ।
ज्ञप्तिमस्तु रसनेन्द्रियविकारान्मनः सम्बन्धः । तेनापि मनसि क्रियाप्रबन्वोऽनुमीयते । तस्मात् प्रयत्नः । ततोऽमीच्छा । तथा च स्मरणम् । ततः संस्कारः । तस्माच्चानुभवः । तेनानुभवेनानुभविता इति ।
अथ शरीरस्यैव चक्षूरसनाधिष्ठायकत्वे रूपरसयोः साहचर्योपलब्धौ स्मरणमिति चेत्, न । तस्याप्यन्यत्वात् । तथा हि कुवलयामलक बिल्वादीनामिव परिमाणभेदस्य शरीरे सद्भावाद् अन्यत्वम् । न ह्यन्यपरिमाणेऽप्यवतिष्टमाने परिमाणवति परिमाण प्रतिषेधाद् उत्तरपरिमाणेन शक्यं भवितुमिति परिमाणान्यथानुपपत्त्या पूर्वपरिमाणनिवृत्तिः । सा चाश्रय विनाशादेवेत्यन्यत्वम् । न च शरीरस्य शरीरान्तरारम्भकत्वम्, एकस्यारम्भकत्वप्रतिषेधात् । कार्यकारणविरोधेन सर्वेषामुपलम्भ
प्रसङ्गात् । अथावस्थाभेदमात्रं न अवस्थायिनो भेद इति चेत्, तन्न । यद्यवस्था परिमाणम्, तद्भेदे तस्याप्यवश्यं भेदः । अथावयवविशेषः तद्विनाशेऽपि तदारव्यस्य विनाशात् । नापि रूपादय:, तेषामप्याश्रयविनाशेन विनाशात् । न च संयोगि समवायि वा धर्मान्तरमस्तीति । शरीरस्यान्यत्वेन स्मरणाद्यसम्भव एव ।
अथ बुद्धौ कारणवासनासङ्क्रान्तिक्रमेण स्मरणोत्पत्तौ रसनेन्द्रियविकारः सम्पद्यत इति चेत्, न । क्षणिकत्वे सति स्मरणस्य पूर्वमेव प्रतिषेधात् । तस्मादेककर्तृकाः स्मरणेच्छादयो ममेति प्रतिसन्धीयमानत्वात् । विभिन्नकर्तृकेषु प्रतिसन्धानाभावः । एककर्तृकेषु तु नर्तकी विक्षेपे कृतसमयानाम् अस्ति ममेति प्रतिसन्धानम् ।
For Private And Personal Use Only