________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
आत्मनैधर्म्यम्
Acharya Shri Kailassagarsuri Gyanmandir
यच्चेदं पादप्रसारणादि तद् अयसोऽयस्कान्ताभिसर्पणवद् वस्तुस्वाभाव्याद् भविष्यतीति । आगमस्तु सुलभत्वादुपचारेणापि व्याख्यातुं शक्यत एवेत्यनैकान्तिकत्वमेव । अथ तदधिष्ठायकस्य सद्भावान्नानैकान्तिकत्वमिति चेत्, न । तस्य लोष्टादिष्वपि सद्भावेन वृद्धिक्षतभग्नसंरोहणादिप्रसङ्गात् ।
तदेतत् सर्वमसाम्प्रतम् । वृक्षादेरपि पक्षान्तर्भावात् । न च साध्येनैव साधनस्य व्यभिचारः, नापि सूत्रव्याघातस्तत्रापि प्रवृत्तिनिवृत्त्योः सद्भावात् । तथा च द्रव्यसन्निधाने च पादप्रसारणम्, न वस्तुस्वाभाव्यात्, शरीरेऽपि तद्भावप्रसङ्गात् । नियतद्रव्याभिलाषश्च वृक्षायुर्वेदे परिपठितस्तेषां ज्ञायते, तदुपभोगे पुष्पादिदर्शनात् । आगमस्य चौपचारिकत्वमयुक्तम्, मुख्ये बाधकानुपपत्तेरित्यलम् ।
अथ वालुकादिनिचयेषु प्रयत्नं विनापि वृद्धेरुपलम्भाद् व्यभिचारः ? न । ईश्वरप्रयत्नस्य तत्रापि सद्भावाभ्युपगमात् । तस्यापि पक्षेऽन्तर्भावाच्छरीरवत् पुरुषगुणपूर्वकत्वं साधनीयमिति ।
तथा * अभिमतविषयग्राहककरणसम्बन्धनिमित्तेन मनः कर्मणा गृहकोणेषु पेलकप्रेरक इव दारकः * आत्मानुमीयत इति व्याप्तिप्रतिपादनमेव । यथा हि गृहे दारकः पेलकैः संक्रीडमानो हस्तस्थितपेलकेन मध्यस्थपेलकमभिहत्य पेलकान्तरेण सम्बन्धयति तद्वद् आत्मापि शरीरे मनसा चक्षुरादिकमभिहत्य विषयः संयोजयतीति । तथा चाभिमतश्चासौ विषयश्च रूपादिस्तद्गृह्णातीति तदुग्राहकम् । तच्च ग्रहणं चक्षुरादि, तेन सह सम्बन्धः, तन्निमित्तेन मनः कर्मणा ज्ञायते । प्रयोगस्तु जीवच्छरीरम्, प्रयत्नवदधिष्ठितम्, अभिमतविषयग्राहककरणाधारत्वात्, गृहवत् । मनो वा प्रयत्नप्रेर्यम्, अभिमत विषयग्राहककरणसम्बन्धित्वात्, हस्तस्थितपेलकवत् । मनः कर्म वा प्रयत्नवत्कार्यम्, अभिमतविषयग्राहककरणसम्बन्धिकर्मत्वात्, हस्तस्थितपेलककर्मवत् । मनसो वा चक्षुरादिसम्बन्धः, प्रयत्नवत् कार्यः अभिमतविषयग्राहककरणसम्बन्धत्वात्, पेलकान्तरसम्बन्धिसम्बन्धवत् । चक्षुरादयो वा प्रयत्नवत् प्रेर्याः, अभिमत विषयग्राहककरणत्वात्, पेलकान्तरवत् । विषयसम्बन्धो वा प्रयत्नवत् कार्य:, अभिमतविषयग्राहककरणसम्बन्धिसम्बन्धत्वात् कोणस्थितपेलकसम्बन्धवत् ।
तथा
नयनविषयालोचनानन्तरं रसानुस्मृतिक्रमेण रसनविक्रियादर्शनाद अनेक गवाक्षान्तर्गत प्रेक्षकवद् उभयदर्शी कश्चिद् [ एकः ] विज्ञायते इति व्याप्ति
For Private And Personal Use Only
१४९
5
10
15
20
25