Book Title: Vyomvati Part 01
Author(s): Vyomshivacharya, Gaurinath Shastri
Publisher: Sampurnanand Sanskrut Vishvavidyalaya Varanasi

View full book text
Previous | Next

Page 181
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir आत्मवैधर्म्यम् 'सुखमस्याः समुत्पन्नम्' इत्यनुमानान्मन्यमानायाः स्वानुभवान्मानसं सुखमुत्पद्यते, न तत् सुखात्, तद्विनाशे हि कालान्तरेणोत्पत्तेरिति । तदेवं दानधर्मस्य प्रतिग्रहधर्मोत्पत्तौ कारणत्वप्रतिषेधपरेणापि सूत्रेण आत्मनि धर्माधर्मयोः सद्भावोऽभिहितः, तथा वक्ष्यामश्च तत्परोक्षायाम्। * संस्कारः स्मृत्युत्पत्तौ * इति । “स्मृतिर्वासनाख्यात्' (वै. सू.? ) इति 5 सूत्रं दर्शयति। तथा हि स्मृतिः कार्यत्वावश्यं कारणमपेक्षते । न चानुभवः कारणम्, तद्विनाशेऽप्युत्पत्तेः। अथानुभवप्रध्वंसः कारणमन्वयव्यतिरेकवत्त्वात् । तदसत् । तस्य निरतिशयत्वात् तीव्रादिभेदभिन्नस्य स्मरणस्यानुपपत्तिप्रसङ्गात् । न हि कारणातिशयं विना कार्यस्यातिशयो युक्तः । अभ्यासवैयर्थ्यञ्च प्रध्वंसातिशयस्य कर्तुमशक्यत्वात् । अतः सातिशयमात्मसमवेतं किञ्चिदसाधारणं कारणमस्ति यतस्तत्समवेता । स्मृतिर्जायते। न चादृष्ट एव, तस्य सकलकार्योत्पत्तौ साधारत्वात्, असाधारणन्तु आत्मसमवेतं सुखदुःखलागं कार्यं दृष्टमिति स्मृतेरन्यदसाधारणं कारणं वाच्यम् । तथाहि, स्मृतिरात्मसमवेता. असाधारणकारणे सत्युत्पद्यते, आत्मसमवेतासाधारणकार्यत्वात्, सुखवत् । तस्मादनुभवेनात्मनि संस्काराधाने सति स्मरण पुत्पद्यत इति स्थितम् । 'स्मृतिर्वासनाख्याद्' भवतीति। तत्र * व्यवस्थावचनात् संख्या * इति । “सुखदुःखव्यवस्थातो नानात्मानः" (वै. स. ३।२।१९) इति सूत्रं दर्शयति । का पुनरियं व्यवस्था ? सुखदुःखादीनां नियमः । तथाहि, एकस्य सुखमन्यस्य दुःखमन्यस्येच्छेति व्यस्थोपलब्धा । ऐकात्म्ये त्वेकस्य सुखित्वे सर्वेषां सुखित्वम्, दुःखित्वे सर्वेषु दुःखित्वञ्चेत्यव्यवस्थाप्रसङ्गः, नियमहेतोरभावात्। ___ अथास्ति शरीरभेदो नियामक इति चेत्, न । अनुसन्धानप्रसङ्गात् । यया हि बालकौमारयौवनावस्थाभेदेन शरीरस्य भेदेऽप्येकत्वादात्मनः प्रतिसन्वानं 'मम सुखमासीद् बाल्यावस्थायाम्' इत्युपलब्धम्, एवं सर्वशरीरेष्वपि प्रसङ्गः। न चैतदस्ति । तस्माद् एकत्वव्यापकं प्रतिसन्धानमात्मनोऽश्वमहिषादिशरीरेभ्यो व्यावर्तमानं स्वव्याप्तमेकत्वं गृहीत्वा व्यावर्तत इति नानात्वम्। तथाहि, अश्वमहिषादिशरीरेऽप्यात्मा धर्मी आत्मत्वे सति व्यक्तिभेदेन नानेति साध्यम्। शरीरान्तरोपलब्धेऽर्थे शरीरान्तरेणाप्रतिसन्धायकत्वात्, यत्र चैकस्तत्रास्ति प्रतिसन्धानम्, यथा बालकौमारयौवनशरीरेष्विति व्यतिरेकः। केवलव्यतिरेकाव्यभिचारेण हेतोर्गमकत्वं वक्ष्यामो २० For Private And Personal Use Only

Loading...

Page Navigation
1 ... 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226