Book Title: Vyomvati Part 01
Author(s): Vyomshivacharya, Gaurinath Shastri
Publisher: Sampurnanand Sanskrut Vishvavidyalaya Varanasi
View full book text ________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१४८
व्योमवती नन्वेवमपि जोवच्छरोरसरि गृहीतविकृतवाय्वाश्रयत्वं भस्त्रादेर्न सम्भवतीति साधनविकलताप्रसङ्गः। तन्न। भस्त्रासाधात् । भस्त्राशब्देन महिषोशरीरस्य विवक्षितत्वाद् उपचारेण। यथा हि भस्त्रा माप्यते प्रयत्नवता तथा महिषीशरीरमिति दृष्टम्, अतः साध्यसाधनाधिकरणत्वम् ।
___ यद् वा जीवच्छरीरपरिगृहीतविकृतो वायुः प्रयत्नवदधिष्ठितः, जीवच्छरीरपरिगृहीतविकृतवायुत्वात्, भस्त्रापरिगृहीतविकृतवायुवत् । यथोक्तविकृतवायुकर्म, प्रयत्नवत्कार्यम्, यथोक्तस्य वायोविकृतकर्मत्वात्, भस्त्रापरिगृहीतविकृतवायुकर्मवत् ।
तथा * निमेषोन्मेषकर्मणा नियतेन, * इति । न वातदोषादुत्पन्नेन । दारुयन्त्रप्रयोक्तेव * आत्मानुमोयत इति । व्याप्तिप्रतिपादनमेतत् । यथा हि प्रयत्नवताधिष्ठितस्य दारुयन्त्रस्य निमेषोन्मेषकर्म तथा जीवच्छरीरस्यापीति । अक्षिपक्ष्मणोः संयोगार्थ कर्म निमेषः । उन्मेषस्तु तद्विभागार्थमिति । तथा हि जीवच्छरीरम्, प्रयत्नवदधिष्ठितम्, निमेषोन्मेषकर्माधारस्यावयवित्वाद्, दारुयन्त्रवत् । अक्षिपक्ष्मणी तु, निमेषोन्मेषकर्माधारत्वात्, दारुयन्त्राक्षिपक्ष्मवत् । निमेषोन्मेषकर्मणी वा, प्रयत्नवत्कार्ये, निमेषोन्मेषकर्मत्वात्, दारुयन्त्रनिमेषोन्मेषकर्मवत् ।
तथा * देहस्य वृद्धिक्षतभग्नसंरोहणादिनिमित्तत्वाद् गृहपतिरिव आत्मानुमीयत इति । व्याप्तिप्रतिपादनमेव । वृद्धिरवयवोपचयः ! क्षतस्य शस्त्रादिसम्बन्धात्, भग्नस्य वा अवयवस्य संरोहणं लोकप्रसिद्धम् । व्यस्तञ्चैतद् विवक्षितम् । सामस्त्ये हि व्यवच्छेद्याभावात् । तथा जीवच्छरीरम्, प्रयत्नवदधिष्ठितम्, वृद्धिनिमित्तत्वात्, [क्षत ] भग्नसंरोहणादिनिमित्तत्वाच्च, गृहवत् । आदिशब्देन केशादेरुद्भवनं पुरुषगुणपूर्वक व्याख्येयं गृहेऽलङ्कारविशेषवत् । अन्यथा हि मृतावस्थायामप्येतत् स्यात् । न चैतदस्ति । तथा वृद्धिक्षतभग्नसंरोहणानि प्रयत्नवत्कार्याणि तद्रूपत्वात् ( ? ) गृहगतवृक्षादिवत् ।
ननु सर्वमेतद् अनैकान्तिकम्, अचेतनेषु वृक्षादिषूपलम्भात् । तथा च "प्रवृत्तिनिवृत्त्योः प्रत्यगात्मनि दृष्टत्वात् परत्रानुमानम्” (वै. सू. ३।१।१९) इति सूत्रेणेच्छानुविधायिक्रिया परत्र चेतने प्रतीयत इत्युच्यते। तथा हि स्वात्मनि विशिष्ट प्रवृत्तिनिवृत्त्योश्चेतनकार्यत्वेनोपलम्भाद् अन्यत्रोपलम्भने तत्कार्यत्वं युक्तम्। तदभावस्तु वृक्षादौ।
For Private And Personal Use Only
Loading... Page Navigation 1 ... 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226