________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
आत्मवैधर्म्यम्
दुःखं तयोः प्राप्तिपरिहारौ तद्योग्याभ्यां तत्समर्थाभ्यामिति । व्याप्तिप्रतिपादनार्थमाह * ( यथा ) रथकर्मणा सारथी रथस्याधिष्ठाता तद्वदात्मा विग्रहस्य शरीरस्याविष्ठाताSनुमीयते । तथा हि जीवच्छरीरम्, प्रयत्नवदधिष्ठितम् जीवच्छरीरसमवायिहिताहितप्राप्तिपरिहारसमर्थप्रवृत्तिनिवृत्त्याश्रयत्वात् रथवत् । प्रवृत्तिनिवृत्त्याश्रयत्वं वाय्वादौ व्यभिचरतीति हिताहितप्राप्तिपरिहारसमर्थपदम् । तथा शाखायन्त्रनिपीडितस्य प्राणिनः शाखाकर्म अहितनिवर्तकम्, अधस्तनस्य फलादिप्राप्ते हितप्रापकञ्चेति तदर्थं शरीरसमवायिपदम् । तथापि नदीस्रोतः पतितश्वकर्मणा व्यभिचारः । तदप्यधस्तनस्य' शुनस्तदुपयोगात् सुखं भक्ष्यत इति सुखप्रापकम्, उपरिष्टाच्च स्नानं कुर्वतस्तपस्विनो दुर्गन्धतया दुःखं जनयतीति तन्निवर्तकञ्चेति तदर्थं जीवच्छरीरपदम् ।
नन्वेवमपीदं विशेषणं विपक्षादिव सपनादेरपि रथादेनिर्वृत्ति दर्शयतीत्यसाधारणत्वमेव स्यात् । न हि रथे जीवच्छरीसमवेत क्रियाश्रयत्वमस्ति । अथ जीवच्छरीरसमवायिहिताहितप्राप्तिपरिहारयोग्या क्रिया, प्रयत्नवत् कार्या, विशिष्टक्रियात्वात्, रथक्रियावद इति । इहापि न सविशेषणस्य हेतोः सपक्षसद्भावः । तथा सुप्तस्य नावारूढस्य यथोक्तविशेषणक्रिया अभिप्रेतेन प्राप्तिहेतुः अहितेन निवृत्तिहेतुश्च, न च प्रयत्नवत्कार्येति व्यभिचारः । तस्माद् इच्छानुविधायिक्रियाश्रयत्वं हेतुरिति । तथाहि जीवच्छरीरम्, प्रयत्नवदधिष्ठितम्, इच्छानुविधायिक्रियाश्रयत्वात्, ( द्रव्यवत् ? ) रथवत् । क्रिया वा प्रयत्नवत् कार्या, इच्छानुविधायिक्रियात्वात्, रथक्रियावत् ।
तथा
प्राणादिभिश्चेति । " प्राणापाननिमेषोन्मेषजीवनमनोगतीन्द्रियान्तरविकाराः सुखदुःखेच्छाद्वेषप्रयत्नाश्चात्मलिङ्गानि ” ( वै. सू. ३१२३४ ) इति सूत्रं दर्शयति ।
अथात्मना सार्धमनुपलब्धेः कथमेषां गमकत्वमित्याह शरीरपरिगृहीते वायौ विकृतकर्मदर्शनाद् भस्त्राध्मापयितेव अनुमीयत इति । व्याप्तिप्रतिपादनमेतत् । प्रयोगस्तु जीवच्छरीरम्, प्रयत्नवदधिष्ठितम्, जीवच्छरीरपरिगृहीत [ विकृत ] वाय्वाश्रयत्वात्, भस्त्रावत् । वाय्वाश्रयत्वमन्येषामप्यस्तीति विकृतग्रहणम् । विकारस्तु तिर्यग्गतिशीलस्य वायोर्यदेतद् ऊर्ध्वमधश्च गमनम् । तथापि वायुर्वाय्वन्तरेण प्रतिहत ऊर्ध्वं गच्छतीति परिगृहीतपदम् । तथा ह्यन्तः सुषिरवृक्षे छिद्रप्रदेशेन प्रविष्टस्य वायोरूर्ध्वमधश्च गमनं सम्भवतीति शरीरपदम् । तथापि शुष्कानुबद्धशरीरे प्रविष्टस्य विकार: सम्भवतीति जीवग्रहणम् ।
For Private And Personal Use Only
१४७
5
10
15
20
25