________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्योमवती
न च विनाशस्याव्यतिरेकाद् अनुभवस्यावस्थाने स्मरणं युक्तम् । अथ द्वितीयक्षणे तस्यानुभवस्याभावाद् अनवस्थानमिति चेत्, न । अव्यतिरेके हि तेनाविरोधाद् अवस्थानमेव । व्यतिरेके तु सहावस्थितिविरोधाभ्युपगमेऽस्मदर्शनानुप्रवेशः। तस्मात् स्मरणमवस्थितमात्मानं प्रसाधयतीति ।
न च क्षणिकत्वे सति कार्यकारणभावो घटते। तथा च यदैव कार्यस्योत्पादस्तदैव कारणस्य विनाशः । स चोत्पादान्न भिद्यत इत्यभ्युपगमे सहोत्पन्नयोर्न स्यात् कार्यकारणभावः सव्येतरयोविषाणयोरिव । विनश्यदवस्थञ्च कारणमिष्टं वैशेषिकैः, विनाशस्य हेतुमत्त्वात् ।
निर्हेतुकविनाशवादिनाञ्च भावविनाशव्यतिरेकेण विनश्यदवस्थानं सम्भवत्येव तस्य 10 विनाशकारणसाकल्यरूपत्वात् ।
नापि स्वसंविद्वादिनः कार्यकारणभावग्रहणमस्ति, कारणसंविदः स्वात्मन्येव पर्यवसानात्, तथा कार्यसंविदोऽपीति, न कारणज्ञानं कार्यसत्तामनुभवति तत्सत्ताकाले तस्यातीतत्वात् । न च ज्ञानान्तरमेकं कारणसत्ताकाले कार्यसत्तां तदभावे चासत्तां विजानातीति।
अथ कार्यकारणज्ञानाभ्यां वासनाक्रमेणास्ति विकल्पज्ञानं कार्यकारणभावग्राहकमिति चेत् । तस्याप्येतद्रूपसमारोपत्वाभ्युपगमेऽप्रमाणत्वेन कार्यकारणभावस्यासिद्धिरेव। तथाहि यद् यत्र समारोप्यते तत् तत्रावास्तवमेव यथा शके पीतादिरिति ।
अथ पूर्वोपलब्धानुसन्धान विकल्पमिति चेत् । एवं तहि कार्यकारणभावग्रहणं विना न वासना। तदभावात् तदध्यवसायविकल्पः कथं भविष्यतीति अनुभवानुरूपत्वाद् वासनायाः। न च बोधादन्या वासना सम्भवतीत्युक्तपूर्वम्। तस्मादवस्थित प्रतिसन्धातारमन्तरेण तु कार्यकारणभावस्याग्रहणमेवेति । अयन्तु क्षणभङ्गोऽस्मद्गुरुभिविस्तरेण निरस्त इति नेह प्रतन्यते । तदेवमक्षणिकत्वे सत्याश्रयायिभावस्योपपत्तौ सत्यामेतत् परिशेषाद् विज्ञानस्यात्माश्रितत्वमिति ।
तथा * प्रवृत्तिनिवृत्तिभ्याम् * आत्मा ज्ञायते । किंविशिष्टाभ्याम् ? * शरीरसमवायिनीभ्यां हिताहितप्राप्तिपरिहारयोग्याभ्याम् इति । हितं सुखमहितं
For Private And Personal Use Only