SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir आत्मवैधर्म्यम् अथ घटविविक्तभूतलोपलम्भ एव घटानुपलम्भो नाभावादिति चेत् । अव्यतिरेके तु घटावष्टब्धेऽपि भूतले स्यान्नास्तीति ज्ञानम् । तस्माद् घटाभावोपलम्भ एव घटस्यानुपलम्भो नोपलम्भाभावमात्रमिति। न च विनाशानभ्युपगमे भावस्य प्रागिव पश्चादप्यवस्थानाद अनुपलम्भो घटते। अथ क्षणस्थायित्वादेव द्वितीयक्षणे तस्यानवस्थानमिति । तहि स एव तस्याभावो यत्सद्भावे द्वितीयक्षणे तस्यानुपलम्भ इति । अन्यथा हीन्द्रियादेस्तादवस्थ्याद् विनाशाभावे नित्यस्यानुपलम्भो न स्यात् । यच्चेदं न तस्य किञ्चिद् भवति न भवत्येव केवलम्' इति उन्मत्तभाषितमेतत् । अनुत्पन्नविनाशस्य पूर्वमप्युपलम्भो न स्याद् विनष्टत्वादेव। अभावेन चाविरोधे पश्चादप्यवस्थानमिति नित्यत्वं स्यात् । तथा क्षणिकत्वे सत्यनुभवितुर्विनष्टत्वादन्यस्य स्मरणं न स्यात्, न हि देवदत्तानुभूतेऽर्थे यज्ञदत्तस्य स्मरणमिति । अथ नानासन्तानेषु कार्यकारणभावस्याभावाद् अस्मरणम् । एकश्च सन्ताने बुद्धीनामस्ति कार्यकारणभाव इत्याहितसकलपूर्ववासनाकं कार्यज्ञानमुत्पद्यते इति कारकानुभूतेऽर्थे तस्य स्मरणं युक्तमेव । नैतदेवम् । कार्यकारणभावेऽपि नानात्वस्या तादवस्थ्याद् देवदत्तादिसन्तानेष्विव कथं स्यात् स्मरणम् ? न च सन्तानसद्भावे प्रमाणमस्ति । बुद्धेर्बुद्धचन्तरकार्यत्वे प्रमाणाभावात् । 15 ___ अथास्ति [ 'बोधाद् ] बोधरूपता' इति चेत् । तथा हि बोधरूपं कार्य बोधादेव भवति यथा शुक्लाच्छुक्लमित्यादि। नन्वेवं तहि धूमस्याग्निजन्यत्वं न स्यात्, समानजातीयस्य धूमक्षणस्य भावात् । अथ विलक्षणादप्यग्निक्षणाद् धूमस्योत्पत्तिरिष्येत, बोधस्यापि विलक्षणाच्छरीरादेरुत्पत्तिर्भविष्यतीति न बोधान्तरसद्भावे प्रमाणमस्ति । अथ किञ्चित्सदृशतया अग्निमस्य कारणं तदा ज्ञानोत्पत्तौ शरीरादावपि समानम्। 20 तथा कृष्णादपि शुक्लस्योत्पत्तिर्भवेत् किञ्चित् सादृश्यसद्भावात् । अत्यन्तसमानजातीयञ्च समनन्तरकारणमित्यभ्युपगम्यमाने रूपज्ञानादेव रूपज्ञानं रसज्ञानादेव रसज्ञानं सुखादेव सुखं दुःखादेव दुःखमिति सन्तानानन्त्यं स्यान्न चास्ति संवेदनमिति । अथैतेषां युगपदसंवेदनम् अननुभूयमानक्षणानामुत्पत्तेः, तर्हि तेन विना तस्यानुत्पत्तेस्तत्सन्तानोऽप्यभ्युपगन्तव्यः । तथा च सति तदैव तेषां संवेदनञ्चेति प्राप्तम्। 25 न चैतदस्ति । तस्मान्न सर्वं ज्ञानं ज्ञानान्तरजन्यमिति प्रतिबन्धोऽस्ति । For Private And Personal Use Only
SR No.020943
Book TitleVyomvati Part 01
Original Sutra AuthorN/A
AuthorVyomshivacharya, Gaurinath Shastri
PublisherSampurnanand Sanskrut Vishvavidyalaya Varanasi
Publication Year
Total Pages226
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy