SearchBrowseAboutContactDonate
Page Preview
Page 172
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailassagarsuri Gyanmandir www.kobatirth.org १४४ व्योमवती अथाभावस्यार्थान्तरत्वाविशेषात् तस्मिन्नुपजाते' सर्वेषामनुपलम्भः स्यात्, न। तस्मिन्नुत्पन्ने कस्यचिदनुपलम्भेन तयोरेव विरोधसिद्धेः। यथा अर्थान्तरत्वाविशेषेऽपि किञ्चिदेव कारणं कस्यचिदेव कार्यस्य हेतुर्न तु सर्वस्येति प्रतिनियमो दृष्टस्तद्वद् अभावस्य नियतेनैव भावेन विरोधो दृष्ट इत्य'दूषणमेतत् । यच्चेद विनाशस्य कारणापेक्षितायामवश्यम्भावो न स्यादिति । वस्त्रे रागस्येव सापेशित्वावश्यम्भावित्वयोविरोधात् । तदसत्, एकत्र व्यभिचारेण सर्वत्र तथाभावस्यानुपलब्धः। तथा सापेक्षित्वेऽपि सवितृग्रहनक्षत्रताराणाञ्चोदयास्तमयोपलब्धनिरपेक्षत्वे च उदयानन्तरमेवास्तमयः स्यात्, समर्थस्योपक्षेपायोगादिति । अवश्यञ्च उदितस्य' सवितुरस्तमयो भवतीति । ___ अथोक्त नङ क्षु [ ? क्षो ] भविस्य विनाशाभ्यपगमे किं हेतुनेति । तत्र विनाशात्मकत्वासम्भवादवश्यं नङ क्षु [ ? क्षो] विनाशयोग्यस्यैव हेतौ [ सति ] विनाशो न गगनादेरिति । तथा स्वकारणादित्थम्भूत एवोत्पन्नो भावो येनास्य अवश्यं विनाशहेतुना भवितव्यमिति । अथ तहि कारणादुत्पद्यमानत्वादभावस्य भावादविशेषप्रसङ्गः ? तन्न । स्वरूप15 भेदस्योपपत्तेः । यथा हि कारणादुत्पद्यमाना रूपादयः परस्परं स्वरूपभेदाद् भिद्यन्ते तथा अभावोऽपि भावादिति । अस्ति च द्रव्यादिषड्लक्षणालक्षितत्वम् भावपारतन्त्र्येण गृह्यमाणत्वमभावस्य रूपमिति । 20 अथोत्पत्तिमत्त्वादभावस्य विनाशे भावोन्मज्जनप्रसङ्ग इत्युक्तम् । तदा [? तन्न ] सदभावधर्मविलक्षणत्वादभावधर्माणाम् । यथा चानुत्पत्तिमतः प्रागभावस्य विनाशस्तथोत्पत्तिमिणोऽपि विनाशस्याविनाश इति । न च विनाशविनाशे भावोन्मज्जनम्, तस्य अतद्रूपत्वाद् अतत्कारणत्वाच्च । तथा हि घटविनाशविनाशो न घटरूपो नापि तत्कारणमिति कथं तस्योन्मज्जनप्रसङ्गः ? न च भावस्यासत्त्वम्, प्रत्यक्षादिप्रमाणैर्व्यवसीयमानत्वात् । तथाहि, 'इह भूतले घटो नास्ति' इति ज्ञानमिन्द्रियभावव्यतिरेकानुविधानाद् इन्द्रियजम् । न च निविषयः, घटाभावविशिष्टभूतलालम्बनत्वात् । For Private And Personal Use Only
SR No.020943
Book TitleVyomvati Part 01
Original Sutra AuthorN/A
AuthorVyomshivacharya, Gaurinath Shastri
PublisherSampurnanand Sanskrut Vishvavidyalaya Varanasi
Publication Year
Total Pages226
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy