________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
आत्मवैधर्म्यम्
नापि नानात्वमिति सत्त्वादिति हेतोरव्यतिरेकः । न च पक्ष एव तस्य व्यतिरेकः, तस्य रूपान्तरत्वात्। यच्चेदम् अक्षणिकत्वेन विरोधाद् भावत्कपक्ष एव अक्षणिकशङ्काव्यवच्छेदसिद्धौ बाधक इत्येतदसत् विरोधिप्रतिपत्तिमन्तरेण विरोधप्रतिपत्तेरयोगात् । अथाक्षणिकस्तद्विरोधी प्रतीयत एव स तर्हि प्रतिपत्तिरूपार्थक्रियाकारित्वाद् असन्न भवतीति कथमस्यास्माद् व्यतिरेकः । यदि चाक्षणिकशङ्काव्यवच्छेदो बाधकादेव प्रतीयेत, सत्त्वादिति हेतोर्वैयर्थ्यं स्यात् तस्याप्यतद्रूपव्यवच्छेदविषयत्वादिति । अथ मौलेन हेतुना क्षणिकत्वमेव साध्यते । तच्च यदि स्वलक्षणादिभिन्नं कथमनुमानपरिच्छेद्यम् ? तस्य हि सामान्यविषयत्वादिति ।
अथ विनाशस्य निर्हेतुकत्वेन क्षणिकत्वम् ? तन्न । निर्हेतुकत्वस्यापि कतिपयकालावस्थायित्वेन, विनाशे विरोधाभावात् । न च निर्हेतुकत्वं युक्तम्, भाव इवाभावेऽप्यन्वयव्यतिरेकाभ्यां हेतोर्व्यापारोपलम्भात् । अथ मुद्गरादिव्यापारात् कपालसन्तानस्योत्पादः, न । तस्य विरोध्युत्पन्नत्वात् । न च कपालसन्तानस्तस्यावरण मिति, प्रागिव तत्कालेऽप्युपलभ्येत । आवरणत्वेऽपि तदुद्विनाशे तस्योपलम्भः स्यात् । न च कपालसन्तानेन घटस्य विरोधः, तत्कारणत्वात् कपालानाम् ।
न च सत्त्वादिति हेतोः सपक्षविपक्षाभ्यामन्वयव्यतिरेकाभ्यामन्तरेण गमकत्वं न्याय्यम्, असाधारणस्यापि गमकत्वप्रसङ्गात् । सर्वस्य च पक्षान्तर्भावात् सपक्ष विपक्षा- 10 भाव एव । अथ कल्पनासमारोपितत्वात् पक्षादिव्यवस्थायाः कल्पनासमारोपिते सपक्षेऽवयस्तदारोपित एव [ विपक्षे] व्यतिरेक इति गमकत्वम् । एवं तहिं कल्पनासमारोपितपक्षादिव्यवस्थापेक्षं काल्पनिकमनुमानमित्यवास्तवं क्षणिकत्वमेव स्यात् ।
अथ अर्थान्तरे विनाशे भावस्योपलम्भ इत्युक्तम्, तन्न । तयोः सहावस्थितिविरोधात् । तथा हि भावे तूत्पन्नेऽभावस्याग्रहणम्, तत्काले तु भावस्येति दृष्टम् । नन्वेवं घटकाले तत्प्रागभावस्य विनाशे तस्याप्यन्यः प्रागभावस्तस्याप्यन्यो विनाश इत्यनवस्था स्यात् ? तदुभावेऽपि न दोषः कार्यनिष्पत्तेर्दर्शनादिति केचित् ।
अन्ये त्वनवस्थायां किल कार्यस्य परिसमाप्तिर्न स्यादिति घटतत्प्रागभावविनाशयोरेक एव प्रागभाव इति मन्यन्ते ।
गुरवस्तु घटकाले तत्प्रागभावस्यानुपलब्धेः स एव तस्य प्रतिषेधः । प्रागभावस्तु घटस्येति तयोः सहावस्थितिविरोधादिति ब्रुवते ।
For Private And Personal Use Only
१४३
5
15
20
23