SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १४२ व्योमवती युगपत् सद्भावे च युगपच्चेति । यच्चोक्तम्, किं तस्य सहकारिगा क्रियत इति ? न किञ्चित् । किं तहिं ? सद्भावे कार्यमेव, अन्यथा सहकारित्वायोगात् । यद् वा तस्य' सामर्थ्य [ ? •त् ] कारकसाकल्यमेव क्रियते तत्सद्भावे कार्यजननात्, असामर्थ्यन्तु वैकल्यं निवर्तते, साकल्यवैकल्ययोः परस्परसभावस्थितिविरोधात् । न च 5 तयोराविर्भावतिरोभावाभ्यामर्थस्य तथाभावप्रसङ्गः, तयोस्तद्व्यतिरेकात् । न च सहकारिणामर्थान्तरत्वाविशेषाद् अविशेषेण सर्वभावसहकारित्वम्, नियतस्यैव सद्भावे भावव्यतिरेकाभ्यां कार्यजनकत्वदर्शनात् । नापि सहकारिणां सहकार्यन्तरात् सामर्थ्यम्, तन्निरपेक्षाणामपि परस्परसान्निध्ये तत्समुदायस्यैककार्यजनकत्वोपलब्धः। दृष्टश्च चशूरूपालोकमनस्काराणां परस्परसान्निध्ये सत्येककार्यजनकत्वम्। न चात्रेतराधिपत्येनान्त्यावस्थायामतिशयः सम्पद्यत इति वाच्यम्, अव्यतिरेके तदभावात्, नहि स एव तस्यैवातिशयो भवतीति। तथातिशयरहितानामतिशयजनकत्वमिति कार्यान्तरेऽपि न बाधास्ति । अथातिशययुक्तानामतिशयजनकत्वम् ? एवं तहि तेषामप्यन्यस्मादतिशयः सम्पद्यत इत्यभ्युपगमेऽनवस्थायां विवक्षितकार्यानुत्पत्तिप्रसङ्गः । तस्मात् सहकारिणां परस्परसान्निध्यमेवातिशय इति युक्तमुत्पश्यामः । तदेवं कार्यवैलक्षण्यं सामग्रीवैलक्षण्याद् भवतीति न प्रतिकार्यम् अन्यत्वं भावानाम् । यश्चायमक्षणिकानां क्रमयोगपद्याभ्यामर्थक्रियाप्रतिषेधः स विशेषप्रतिषेधस्यावश्यं शेषाभ्यनुज्ञायां समर्थ इति प्रकारान्तरेणार्थक्रियाप्रसङ्गः । न च तदसत्त्वग्राहक प्रमाणमस्तीति। तथा परस्पराधिपत्येन कार्यजनकत्वाभ्युपगमात् । रूपादीनामेकैकमनेकरूपादेयुगपत् कारणमित्यभ्युपगमे योगपद्यप्रतिषेधादेव तदन्तर्भूतः क्रमो निषिद्ध इति तस्य स्वशब्देन पुनर्वचनम् पुनरुक्तमेव स्यात् । तथाहि यथा रूप युगपद् रूपरसगन्धस्पर्शानारभते तथा रसादयोऽपि, एककविवक्षायां तत्रैव क्रम इत्येकस्यैव प्रतिषेधो वाच्यः। न चैकमेकस्मादेवोत्पद्यते तदारभते चेति नियमः सम्भवति । ___ न चान्यथैकस्य क्रमेणानेककार्यजनकत्वम्, प्रतिक्षणमन्यत्वाभ्युपगमात् । तस्मात्, सहकारिसद्भावे सति क्रमयोगपद्याभ्यामर्थक्रियाजननाद् अक्षणिकानां नासत्त्वमिति For Private And Personal Use Only
SR No.020943
Book TitleVyomvati Part 01
Original Sutra AuthorN/A
AuthorVyomshivacharya, Gaurinath Shastri
PublisherSampurnanand Sanskrut Vishvavidyalaya Varanasi
Publication Year
Total Pages226
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy