________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
आत्मवैधर्म्यम्
Acharya Shri Kailassagarsuri Gyanmandir
ननु मुद्गरादिव्यापारेण घटादिविनाशस्योत्पादोपलम्भादयुक्तमेव तत्, न । आत्मभाग [ ? ] सङ्गतौ तद्व्यापारात् । यदि च हेतोरर्थान्तरभूतो विनाश उत्पाद्येत तदा तदभावस्यानुपलम्भो न स्यात्, तत्स्वरूपस्यापरिभ्र शात् । तथा अभावस्यैव कारण [ ? कार्यं ] जनकत्वाभ्युपगमे भावरूपत्वप्रसङ्गश्च ।
न चार्थान्तरत्वाविशेषात् तस्मिन्नुपजाते कस्यचिद् भावस्यानुपलम्भो न सर्वस्येति विशेषहेतुरस्ति । नापि कारणापेक्षितायामवश्यम्भावः स्यात् । वस्त्रे रागस्येव सापेक्षित्वावश्यम्भावित्वयोविरोधात् । तथा हि वस्त्रे रागः सम्पद्यमानः कारणसद्भावाद् भवति, अभावे न भवति । एवं क्वचिद् वस्तुनो विनाश [ ? ] हेतुप्रतिबन्धाद् अभावाद वा विनाशित्वमपि स्यात् । यदि चाविनश्वरस्वरूपाणां [अ] हेतुतो विनाशो गगनादीनामपि नित्यतयाभ्युपगतानां विनाशः प्रसज्येत । अथ नङक्षोर्भावस्य हेतुता, ततो विनाशवत् किं तत्कल्पनया ? तत्स्वरूपत्वादेवावश्यं विनापि हेतुं विनाशो भवतीति ।
यदि करणकार्यत्वञ्च स्याद् विनाशस्य कृतकत्वात् तद्विनाशेऽवश्यं भावोन्मज्जनं स्यात् । तस्मात् " न तस्य किञ्चिद् भवति न भवत्येव केवलम्” इति भावलक्षणस्थितधर्मानाश इति ।
न चाक्षणिकत्वे प्रत्यभिज्ञानं प्रमाणम्, तस्य कल्पनाज्ञानत्वात् । तदेतत् सर्वमविदितार्थम् । कल्पना नस्य पूर्वमेव निरस्तत्वात् ।
अथ ' स एवायम्' इति ज्ञाने विरुद्धोल्लेखाद् एकत्वमयुक्तम् । तथा हि 'स' इत्यतीताकारं ज्ञानम्, 'अयम्' इति च वर्तमानाकारम् । न च विरुद्धाकारयोरेकत्र सम्भवो दृष्ट इति ।
तदसत् ।
आकारवादप्रतिषेधे
पूर्वानुभवजनितसंस्कारस्मरणसहकारीन्द्रियेण ' स एवायम्' इत्युभयोल्लेखि ज्ञानं जन्यते । तस्य चार्थान्वयव्यतिरेकानुविधानान्निः विषयत्वमयुक्तम् ।
अथास्तु प्रत्यभिज्ञानाद् अवस्थायित्वमर्थानाम् । अर्थक्रियाकारित्वन्तु कथम् ? सहकारिसान्निध्ये सतीति । तथा हि क्रमेण सहकारिसद्भावे सति क्रमेण जनकत्वम्,
For Private And Personal Use Only
१४१
5
10
15
20