________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१४०
व्योमवती
अनुपलम्भात् । न हि करणं प्रधानक्रियाश्रयो दृष्ट इति। स्वकीयापेक्षया तु सर्वस्य कर्तृत्वमेवेति। तदेवं परिशेषादात्मकार्यत्वात् * चैतन्यस्य। तेनात्मा समधिगभ्यते *
___ कः पुनरयं परिशेषः ? प्रसक्तेषु शरीरादिषु जात्यादिषु विषयेषु चैतन्यप्रतिषेधे तथा तदाश्रयस्थ व्यवस्थापनान्नानात्वाधिगमादाकाशादीनामेकत्वेनाप्रसक्तः, शिष्यते च द्रव्यान्तरमिति परिशेष: केवलव्यतिरेक्यनुमानम् । तथा च ज्ञानम्, क्षितिजलज्योतिराकाशदिक्कालमनोव्यतिरिक्तद्रव्याश्रयम्, तवृत्तौ बाधकप्रमाणसद्भावे सति गुणत्वात्, यस्तु तव्यतिरिक्ताश्रयो न भवति न चासौ तद्वृत्तिबाधकप्रमाणसद्भावे सति गुणः, यथा रूपादिः, न च तथा ज्ञानम्, तस्माद् व्यतिरिक्ताश्रयमिति ।
ननु सर्वमेतदसम्बद्धम् । क्षणिकत्वेनाश्रयाश्रयिभावानुपपत्तेः। तथा च पदार्थानामर्थक्रियया सत्त्वं व्याप्तम्। सा च क्रमयोगपद्याभ्यामक्षणिकेषु न सम्भवति, क्रमेण जनकत्वम्, एकस्वरूपत्वात् । यदेव हि पूर्वकार्योत्पत्तौ स्वरूपं तदेवोत्तरकार्येष्वपीति सर्वेषामेकताप्रसङ्गः, कारणवैलक्षण्यं विना कार्यवैलक्षण्यस्याशक्यसाधनत्वात् ।
अथ कार्यवैलक्षण्यादेव ज्ञायते प्रतिकार्य पूर्वस्वरूपनिवृत्तावन्यदेव स्वरूपं 15 भावानां भवतीति । तहि स्वरूपस्यावस्थानानभ्युपगमात् तथाऽसत्त्वप्रसङ्गः।
अथावस्थितस्यापि क्रमयोगपद्याभ्यां सहकारिप्राप्तौ तथैव जनकत्वमिति चेत्, न । तस्य तस्मिन्नतिशयाधायकत्वेनातिशयनिवर्तकत्वेन च तयोरव्यतिरेकादन्यत्वमेव । व्यतिरेकेऽपि तद्भावेऽपि भावस्य कथं कार्यस्य जनकत्वं दृष्टमिति । न ह्यर्थान्तरजन्मन्यर्थान्तरस्य क्रियाजनकत्वं दृष्टमित्यनुपकारके वस्तुन्यपेक्षैव न स्यादिति सहकारित्वाभावः। अथ सहकारिणामपि सहकार्यन्तराधीनं सामर्थ्यम्, तदपि यदि सहकार्यन्तरादित्यनवस्थैव स्यात् । अथ सहकार्यन्तरं विनैव सहकारिणां स्वत एव सामर्थ्यमिति चेदेतच्चान्यत्रापि समानमित्यलम् ।
तदेवमक्षणिकेभ्यो व्यावर्त्तमानार्थक्रिया स्वव्याप्तं सत्त्वं गृहीत्वा व्यावर्तत] इत्यसन्तोऽक्षणिकाः। तदेवं बाधकोपलम्भात् परपक्ष एवाक्षणिकशङ्काव्यवच्छेदसिद्धौ 25 सत्त्वमेव क्षणिकसाधनमिति । तथा निर्हेतुकत्वाद् विनाशस्योत्पत्त्यनन्तरमेवाभाव इति
क्षणिकत्वम् ।
For Private And Personal Use Only