SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 3 आत्मवैधर्म्यम् क्रियते । न चात्र शरीरस्यैव पक्षीकरणम्, मृते चासम्भवाच्चैतन्यस्येति हेतोर्व्यधिकरणताप्रसङ्गात् । तथेन्द्रियाणां चैतन्यप्रतिषेधः, नेन्द्रियाणां चैतन्यं करणत्वाद् वास्यादिवत् । भूतत्वात् कार्यत्वादित्यपि द्रष्टव्यम् । इतोऽपि नेन्द्रियाणां चैतन्यम्, तदुपघातेऽपि स्मृतिदर्शनात् । न च गुणिविनाशे गुणस्य सद्भावो दृष्टः । तथा हि स्मरणम्, इन्द्रियगुणो न भवति, तद्विनाशेऽप्युत्पद्यमान वात्, यो यद्विनाशेऽन्युत्पद्यते स तस्य गुणो न भवति, यथा घटविनाशेऽपि पटरूपादिरिति तथा च स्मरणमिन्द्रियविनाशेऽपि भवति, तस्मान्न तद्गुण इति । Acharya Shri Kailassagarsuri Gyanmandir यदि चेन्द्रियाणां चैतन्यं स्यात् करणं विना क्रियायाश्चानुपलब्धेरिति करणान्तरैभवितव्यम् । तानि करणानीन्द्रियाणि विवादास्पदानि चात्मान इत्येकस्मिन्नेव शरीरे पुरुषबहुत्वमभ्युपगतं स्यात् । एवञ्च सति देवदत्तोपलब्धेऽर्थं यज्ञदत्तस्येवेन्द्रियान्तरोपलब्धेऽर्थे न स्यादिन्द्रियान्तरेण प्रतिसन्धानम् । ततु दृष्टमतो नेन्द्रियाणां चैतन्यम् । यदि चैकमिन्द्रियमशेषकरणाधिष्ठायकं चेतनमिष्येत संज्ञाभेदमात्रमेव स्यात् । अथ विषयगुणश्चैतन्यं भविष्यतीति तन्निषेधार्थमाह विषयासान्निध्ये चानुस्मृतिदर्शनात् । तथाहि विषयासान्निध्ये तद्विनाशे वा अनुस्मृतिदृष्टा । न च तद्गुणस्तदुद्विनाशे भवतीति । अथ मनोगुणो भविष्यतीति तत्प्रतिषेधार्थमाह * नापि मनसः * । चैतन्यम्, गुणः, करणत्वाद् वास्यादिवत् । यत् कर्तृमनस्तदपि सुखाद्युपलब्धी यदि करणान्तरमपेक्षेत संज्ञाभेदमात्रमेव स्यात् । तथाहि यत् तत्सुखाद्युपलब्धेः करणं तदेवान्तःकरणम्, यच्चेतनं मनः स एवात्मा स्वात् । अथ करणान्तरं नापेक्षते, तर्हि करणान्तरानपेक्षिले युगपदालोचनस्मृतिप्रसङ्गः । तथा हि मनसश्चैतन्ये युगपद् रूपरसस्पर्शशब्दज्ञानानि प्रसज्येरन् । चक्षुरादीनां मनःसम्बन्धे सति करणान्तरानपेक्षाणां स्वविषयैः सम्बन्वात् । तथाहि स्मृतियौगपद्यश्व करणानपेक्षित्वात् । न चैकस्य क्रमेण कार्यजनकत्वम्, पूर्वस्वरूपस्यापरिभ्र शात् । नापि युगपदेव सर्वं कृत्वा पुनरकरणे हेत्वभावात् । प्रतिकार्यञ्च पूर्वस्वरूपव्यावृत्त्यभ्युपगमे क्षणिकताप्रसङ्गः । अथ करणस्यापि मनसश्चैतन्यम् ? तन्न । * स्वयं करणभावाच्च * इति । तथा हि चैतन्यं प्रधानक्रिया, सा च कर्तरि कर्मणि वा समवैति न करणे भवितुमर्हति For Private And Personal Use Only १३६ 5 10 15. 20 25
SR No.020943
Book TitleVyomvati Part 01
Original Sutra AuthorN/A
AuthorVyomshivacharya, Gaurinath Shastri
PublisherSampurnanand Sanskrut Vishvavidyalaya Varanasi
Publication Year
Total Pages226
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy