________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१३८
व्योमवती
मनांसि शरीरेन्द्रियाण्येव । तेषां न चैतन्यं तत्करणानामज्ञत्वात्, अचेतनकारणारब्धत्वादित्यर्थ इति केचित् ।
अथ करणानामज्ञत्वं कुतः ? कार्याज्ञानात् । नन्वेवमितरेतराश्रयत्वम् ? न। घटादिकार्यस्याचेतनतयोभयवादिसम्प्रतिपत्तेः करणानामज्ञत्वं सिद्धम्। तज्जातीयाश्च परमाणवः शरीरारम्भका इत्यचेतनकारणारब्धत्वे तस्याप्यचेतनत्वम् । एवमिन्द्रियेष्वपि । यदि च परमाणुषु चैतन्यं स्यादेकस्मिन्नेव शरीरे पुरुषानन्त्यात् प्रतिसन्धानादिव्यवहारोच्छेदप्रसङ्गात् ।
शरीरेन्द्रियाणाञ्च चैतन्यस्योत्पत्तावन्वयव्यतिरेको कारणत्वादपि सम्भवतः कथं तदाधारत्वमिति । अथैवमदृष्टकल्पनादोष इति चेत्, न । प्रमाणोपलम्भात् । तथाहि 10 प्रत्यक्षवदनुमेयस्याप्यर्थस्यास्त्येव सद्भावः ।
तत्र शरीरस्य चैतन्यप्रतिषेधार्थमाह * न शरीरस्य चैतन्यम् * इति । अत्र तु चैतन्यस्य पक्षीकरणे भूतकार्यत्वमसिद्धं स्यादिति शरीरमेव पक्षीक्रियते। तथाहि, शरीरम्, परपरिकल्पितचैतन्यशून्यम्, भूतत्वात् कार्यत्वाच्च, यद् भूतं यच्च कायं तच्चैतन्यशून्यम्, यथा घटः, तथा च शरीरम्, तस्मादचेतनमिति ।
अन्ये त्वेक एव भूतकार्यत्वादिति हेतुर्विवक्षित इति मन्यन्ते। तच्चासद् [भूतत्वादित्युक्तेनैव ] व्यभिचाराभावात् । अथ भूतकार्यत्वादित्युक्तेऽस्त्यात्मना व्यभिचार इति चेत्, न । तस्य साध्यत्वात् । सिद्धे च व्यभिचारो भवतीति । यस्य चात्मा प्रसिद्धस्तं प्रत्यनुमानोपन्यासो व्यर्थ एव । तथा कार्यवादित्युक्ते नास्ति व्यभिचार इति व्यर्थमेव' स्याद् भूतपदम् । न च चेतनया व्याभिचारः, तस्याश्चैतन्यशून्यत्वेन सपक्षत्वादिति हेतु द्वितयमेव युक्तम् । अवयवव्यत्यये तूक्तमेव प्रतिसमाधानम् ।
तथा * मृते चासम्भवात् " इति। मृतावस्थायां चैतन्यस्य रूपादिवदनुपलब्धेर्न शरीरविशेषगुणत्वम् । तथा :हि चैतन्यम्, शरीरविशेषगुणो न भवति, सति शरीरे निवर्तमानत्वात्, ये हि सति शरीरे निवर्तन्ते ते तद्विशेषगुणा न भवन्ति, यथा
संयोगादयः, ये तु शरीरविशेषगुणास्ते तस्मिन् सति न निवर्तन्ते, यथा रूपादय इति । 25 न च विशेषगुणत्वप्रतिषेधेन सामान्यगुणत्वप्राप्तिः, प्रतियोग्यपेक्षितत्वात् पक्षादि
व्यवस्थायाः। तथा हि चैतन्यस्य परेण शरीरविशेषगुणत्वमेवेष्टं तस्यैव प्रतिषेधः
20
For Private And Personal Use Only