________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
आत्मवैधर्म्यम् प्रत्यक्षत्वम् । तत्र प्रत्यक्षेऽप्यप्रत्यक्षाभिधानाल्लभ्यते । तस्मिश्च सति करणैः श्रोत्रादिभिः समधिगमः क्रियते । श्रोत्रादिभिरित्युभयत्रापि योज्यम् । तथाहि, शब्दोपलब्धिः, करणकार्या, क्रियात्वात्, छिदिक्रियावत् । एवं शेषेष्वपीति । तस्य सौक्षम्याद् यथोक्तात् करणैः श्रोत्रादिभिरप्रत्यक्षत्वे सति तैरेव लिङ्गभूतैस्तस्याधिगमः क्रियते ।
श्रोत्रादीनामपि सद्भावेऽनुमानमाह - शब्दाद्युपलब्ध्यनुमितैः * इति । शब्दस्पर्शरूपरसगन्धोपलब्धिक्रियाभिरनुमीयन्त इति, तदनुमितानि तैरिति । तथाहि, शब्दोपलब्धिः, करणकार्या, क्रियात्वात्, छिदिक्रियावत् । एवं शेषेष्वपीति ।
व्याप्तिप्रतिपादनार्थमाह * वास्यादीनामिव करणानां कर्तृप्रयोज्यत्वदर्शनात् * इति । यथा वास्यादीनि करणानि कर्तृप्रयोज्यानीति तद्वच्छोत्रादीन्यपि करणानि, तस्मात् कर्तृप्रयोज्यानि । तथाहि, श्रोत्रादीनि करणानि, कर्तृप्रयोज्यानि, करणत्वात्, 10 वास्यादिवदिति।
अथात्र सर्वगतात्मप्रयोज्यत्वे साध्ये साध्यविकलत्वम्, विपर्यये वा सिद्धसाधनमिति । न । सर्वानुमानेषु सामान्येनैव साध्यसाधनभावोपपत्तेविशेषेणानुव्याप्त्यभावे सर्वानुमानोच्छेदप्रसङ्गः। प्रमाणञ्चानुमानमिति वक्ष्यामस्तदधिकारे । सिद्धे च कर्तृसद्भावे तस्य' शरीरादिव्यतिरेकः परिशेषात् । तथा न परं करणः * शब्दादिषु 15 प्रसिद्धया च प्रसाधकोऽनुमीयते * । शब्दादिषु विषयेषु प्रसिद्धिविज्ञानं तया प्रसाधकः समवायिकारणमात्मानुमीयते। तथाहि, शब्दादिज्ञानम्, क्वचिदाश्रितम्, गुणत्वात्, यो यो गुणः स स आश्रितः, यथा रूपादिः, तथा च गुणो ज्ञानम्, तस्मादाश्रितम् । समवायिकारणपूर्वकत्वं कार्यत्वाद् रूपादिवदेव ।
____ अथ शरीराद्याश्रितं भविष्यतीति सिद्धसाधनमित्याशङ्कयाह * न शरीरेन्द्रिय- 20 मनसाम् * इति । तथाहि, परे मन्यन्ते प्राणवच्छरीरे सति भावात्, तदभावे चाभावाच्छरीरधर्म एव चैतन्यमिति । एवमिन्द्रियादिष्वप्यूह्यम्। तन्निषेधार्थं न शरीरेन्द्रियमनसां चैतन्यमिति । व्यवहारे साध्ये न साध्याविशिष्टो हेतु: * अज्ञत्वात् * इति । यद् वा स्वसिद्धान्तोपदर्शनमेतत् । अस्मसिद्धान्ते नामीषां चैतन्यमिति । नन्वेवं यदि शरीरस्य चैतन्यं नास्ति तहि किमर्थं परेरुक्तश्चैतन्यविशिष्टः कायः पुरुषः। 5 तथेन्द्रियभावव्यतिरेकानुविधानादिन्द्रियाणाञ्चेत्याशङ्कयाह * अज्ञत्वात् * इति । न हि विदुषो बाधकमुपलभमानस्यैवं वांसि प्रवर्तन्त इति। तथा मन्यन्त एभिरिति
For Private And Personal Use Only