SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १३६ व्योमवती तस्यात्मान्तराप्रत्यक्षत्वात् । प्रत्यक्षजञ्चेदं विज्ञानं न प्रमाणान्तरप्रभवमित्युक्तम् । न चात्मान्तरेणात्मान्तरस्याप्रत्यक्षतायां स्वात्मनोऽपि तथाभावप्रसङ्गः, स्वसंविदा बाध्यमानत्वात् । नापि रूपान्तरस्य संख्यादेः प्रत्यक्षताप्रसङ्गः, तस्य प्रतिभासाभावेनाप्रत्यक्षत्वात् । तथा यत्र हि रूपविशेषस्य प्रत्यक्षत्वं तत्रैव संख्यादयः प्रत्यक्षा इत्युक्तपूर्वम् । अथात्मनः कर्तृत्वादेकस्मिन् काले कर्मत्वासम्भवेनाप्रत्यक्षत्वम् ? तन्न। लक्षणभेदेन तदुपपत्तेः। तथाहि, ज्ञानचिकीर्षाधारत्वस्य कर्तृलक्षणस्योपपत्तेः कर्तृत्वम्। तदैव च क्रियया व्याप्यत्वोपलब्धः कर्मत्वञ्चेति न दोषः, लक्षणतन्त्रत्वाद् वस्तुव्यवस्थायाः। न चानयोरेकस्मिन् धर्मिण्येकस्मिश्च काले कर्तृकरणयोरिवास्तु 10 विरोधः। तथा हि स्वातन्त्र्यं कर्तृत्वं पारतन्त्र्यञ्च करणत्वमिति त्वनयोविधिप्रतिषेध रूपत्वादभिन्ने धर्मिण्यसम्भवो युक्तः । न चैवं कर्तृत्वकर्मत्वयोरिति । 15 अत एव 'मदीयं शरीरम्' इत्यादिप्रत्ययेष्वात्मानुरागसद्भावेऽप्यात्मनोऽवच्छेदकत्वम्, 'अहर्ष देवकुलम्' इति ज्ञाने श्रीहर्षस्येव, उभयत्रापि बाधकसद्भावात् । यत्र ह्यनुरागसद्भावेऽपि विशेषणत्वे बाधकमस्ति तत्रावच्छेदकत्वमेव कल्प्यत इति । अस्ति च श्रीहर्षस्य विद्यमानत्वमात्मनि [इति ] कर्तृत्वकरणत्वयोरसम्भव इति । बाधकम्। न चैकस्मिन्नेव धर्मिणि कादिविभागस्योपलब्धेरवास्तवत्वमेव न्याय्यम्, लक्षणभेदस्य वास्तवत्वात् । येषान्तु लक्षणभेदो नास्ति तेषामेव दोष इति । कल्पनाज्ञानञ्च पूर्वमेव निरस्तमिति न कल्पना समानोऽपिता कारणादिव्यवस्था [?] तदेवं कादिप्रविभागस्य भिन्ननिमित्तत्वादेकस्मिन्नेवात्मन्यनमानेन प्रत्यक्षेण वा परिच्छेद्यमानेन तदेव' कर्तृत्वं न दोषायेति । 20 नन्वेवमात्मन्यहमिति प्रत्ययस्य प्रत्यक्षफलत्वात् तस्य' सौपम्यादप्रत्यक्षत्वे सतीत्यसम्बद्धं वाक्यम् । न । बाह्येन्द्रियविवक्षया अस्याभिधानात् । तथा हि कस्मादात्मा क्षित्यादिवद् बाह्येन्द्रियप्रत्यक्षो न भवतीत्युक्ते वाक्यं सम्बध्यते । तस्य सौक्षम्याद् रूपविशेषैकार्थसमवायस्य, महत्त्वस्यानेकद्रव्यत्वसहचरितस्याभावान्न बाह्येन्द्रिय For Private And Personal Use Only
SR No.020943
Book TitleVyomvati Part 01
Original Sutra AuthorN/A
AuthorVyomshivacharya, Gaurinath Shastri
PublisherSampurnanand Sanskrut Vishvavidyalaya Varanasi
Publication Year
Total Pages226
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy