________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१३५
आत्मवैधय॑म् इतरस्माद् भिद्यते, आत्मत्वाभिसम्बन्धाद्, यस्त्वितरस्मादनात्मनो न भिद्यते न चासावात्मत्वेनाभिसम्बद्धः, यथा क्षित्यादिरिति, न च तथात्मा, तस्माद् भिद्यत इति । व्यवहारो वा साध्यः। तथा शब्दार्थनिरूपणपरत्वेन पूर्ववद् वाक्यं योजनीयम् । तथा लक्षणस्याक्षेपप्रतिसमाधानं पूर्ववद् वाच्यम् ।
ननु सर्वमेतदसम्बद्धम्, आत्मसद्भावे प्रमाणाभावात् । तथा हि न प्रत्यक्षेणो- 5 पलभ्यते रूपादिवत्, स्वभावानवधारणात् । नाप्यनुमानमस्त्यात्मप्रतिबद्धमित्याशङ्कयाह * तस्य सौक्षम्यादप्रत्यक्षवे सति करणः शब्दापलब्ध्यनुमितैः श्रोत्रादिभिः समधिगमः कियते * इति । सौक्ष्म्यं रूपविशेषैकार्थसमवेतमहत्त्वाद्यभावोऽभिप्रेतो नाणुपरिमाणसम्बन्धित्वम्, अत एव तस्याप्रत्यक्षत्वम् ।
ननु चायुक्तमेतत्, अहमिति प्रत्यये तस्य प्रतिभासनात् । तथा च 'सुख्यहं 10 दुःख्यहमिच्छावानहम्' इति प्रत्ययो दृष्टः । न चायमनुमापूर्वकः, लिङ्ग-लिङ्गिसम्बन्धानुस्मरणव्यापारस्यासंवेदनात् । नापि शब्दः, तेन विनाप्युत्पद्यमानत्वात् । नापि विपर्ययज्ञानमेतद्, अबाध्यमानत्वात् । नापि संशयज्ञानम्, तद्रूपस्यासंवेदनात् । अतः प्रमारूपत्वादवश्यं प्रमाणान्तरप्रतिषेधे प्रत्यक्षस्यैव व्यापारः। न शरीरालम्बनम्, अन्तःकरणव्यापारेणोत्पत्तेः। तथाहि, न शरीरम्, अन्तःकरणपरिच्छेद्यम्, 15 बहिविषयत्वात् ।
नग्वेवं 'कृशोऽहं स्थूलोऽहम्' इति प्रत्ययस्तहिं कथम् ? मुख्य बाधकोपपत्तेरुपचारेण । तथाहि, मदीयो भृत्यः' इति ज्ञानवत् 'मदीयं शरीरम्' इति भेदप्रत्ययदर्शनाद् भृत्यवदेव शरीरेऽप्यहमिति ज्ञानस्यौपचारिकत्वमेव युक्तम् । उपचारस्तु निमित्त विना न प्रवर्तत इत्यात्मोपकारकत्वं निमित्तं कल्प्यते । आत्मनि तु मुख्यत्वम्, सुखीति 20 ज्ञानेन समानाधिकरणत्वात् । तथा हि यत्र सुखीति ज्ञानं तत्रैवाहमिति ज्ञानस्योपलम्भः । सुखादियोगश्च शरीरादिव्यतिरेकेणात्मन्येवेति वक्ष्यामः ।
यच्चेदं रूपादिवत् स्वभावानवधारणादिति । तदसत्, अहमिति स्वभावस्य प्रतिभासनात् । न चार्थान्तरस्यार्थान्तरस्वभावेनाप्रत्यक्षत्वं दोषः, सर्वपदार्थानामप्रत्यक्षताप्रसङ्गात् । न च परकीयेऽप्यात्मनि 'अहम्' इति प्रतिभासप्रसङ्गः स्यात्,
For Private And Personal Use Only