________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्योमवती करणत्वाद्, [उपहतेषु] विषयासानिध्ये चानुस्मृतिदर्शनात् । नापि मनसा, करणान्तरानपेक्षित्वे युगपदालोचनस्मृतिप्रसङ्गात, स्वयं करणभावाच्च । परिशेषादात्मकार्यत्वात् तेनात्मा समधिगम्यते। शरीरसमवायि
नीभ्याञ्च हिताहितप्राप्तिपरिहारयोग्यास्यां प्रवृत्तिनिवृत्तिभ्यां रथकर्मणा 5 सारथिवत् प्रयत्नवान् विग्रहस्याधिष्ठातानुमीयते, प्राणादिभिश्चेति ।
कथम् ? शरीरपरिगृहीतै वायौ विकृतकर्मदर्शनाद्, भस्त्रामापयितेव । निमेषोन्मेषकर्मणा नियतेन दारुयन्त्रप्रयोक्तेव। देहस्य वृद्धिक्षतभग्नसंरोहणादिनिमित्ताद्, गृहपतिरिव । अभिमतविषय. प्राहककरणसम्बन्धनिमित्तेन मनकर्मणा, गृहकोणेषु पेलकप्रेरक इव दारका । नयनविषयालोचनानन्तरं रसानुस्मृतिक्रमेण रसनविक्रियादर्शनाद् अनेकगवाक्षान्तर्गतप्रेक्षकवद् उभयदर्शी कश्चिदेको विज्ञायते ।
सुखदुःखेच्छाद्वेषप्रयत्नैश्च गुणैर्गुण्यनुमीयते । ते च न शरीरेन्द्रियगुणाः । कस्मात् ? अहङ्कारेणैकवाक्यत्वाभावात्, प्रदेशवृत्तित्वादयावद्र्व्य
भावित्वाद् वाह्येन्द्रियाप्रत्यक्षत्वाच्च । तथाहंशब्देनापि पृथिव्यादिशब्द15 व्यतिरेकादिति ।
__तस्य गुणा बुद्धिसुखदुःखैच्छाद्वेषप्रयत्नधर्माधर्मसंस्कारसंख्यापरिमाणपृथक्त्वसंयोगविभागा: आत्मलिङ्गाधिकारे बुद्ध्यादयः प्रयत्नान्ता: सिद्धाः। धर्माधर्मावात्मान्तरगुणानामकारणत्ववचनात् । संस्कार:
स्मृत्युत्पत्तौ कारणवचनात् । व्यवस्थावचनात् संख्या। पृथक्त्वमप्यत 20 एव । तथा चात्मेतिवचनात् परममहत् परिमाणम् । सुखादीनां सन्निकर्षजत्वात् संयोगः । तद्विनाशकत्वाद् विभाग इति ।
इदानीमात्मनो लक्षणपरीक्षार्थम् * आत्मत्वाभिसम्बन्धाद् * इत्यादिप्रकरणम् । आत्मत्वेनाभिसम्बन्धः, आत्मोपलक्षितः समवायो वा लक्षणमिति। तथा ह्यात्मा,
For Private And Personal Use Only