________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
आत्मवैधर्म्यम्
5
[* श्रुतिस्मृतिलोकव्यवहारार्थम् * । ] श्रुतिश्च, स्मृतिश्च, लोकश्चेति तथोक्तास्तेषां संव्यवहारार्थमिति । श्रौतो हि व्यवहार: 'वायव्यां गवयमालभेत', स्मार्तस्तु 'प्राङ्मुखो भुञ्जीत', लौकिकोऽपि 'अस्मद्वृद्धाः प्राङ्मुखा यजन्ते स्म' इत्यादिव्यवहारस्य प्रसिद्धयर्थमिति ।
अथ लोकपालपरिगृहीतदिक्प्रदेशः संयोगो भगवतः कथं भवतीत्याह * मेरु प्रदक्षिणमावर्तमानस्य * इति । प्रदक्षिणं हि यथा भवति तथा मेरु परिभ्रमतोऽपि विशिष्टसंयोगास्तद्वशाच्च प्राचादिव्यवहारः, अन्वयव्यतिरेकाभ्यामुपलम्भाच्च । तथाहि, उदयसमये सवितुर्दिकप्रदेशेन योगात् प्राचीति व्यवहारः, तत्र हि प्राक् प्रथममञ्चतीति कृत्वा। एवं मध्याह्नसमये दिक्प्रदेशेन संयोगाद् दक्षिणेति व्यवहारः। तथा चापराले तद्योगात् प्रतीचीति च । एवमुदीच्यादिष्वपि वाच्यम्।
नन्वेवं तहि स एवादित्यसंयोगोऽस्तु पूर्वादिव्यवहारस्य निमित्तम्, अलं दिशः कल्पनयेति । न । आदित्यस्यापि पूर्वापरादिव्यवहारविषयत्वेऽन्यादित्यपरिकल्पनायामनवस्था स्यादिति निमित्तान्तरमेव न्याय्यम् । न चादित्यपरिवर्तनं सर्वत्र सम्भवतीति तत्र पूर्वापरादिव्यवहाराभावप्रसङ्गः। तस्मादेकाप्यनेकसंयोगोपचिता विशिष्टव्यवहारसमर्थेत्यभ्युपगन्तव्यम् ।
10
अतो भक्त्या उपचारेण दश दिश: सिद्धाः। तासाञ्चोपचरितदिशां देवतापरिग्रहवशात् पुनर्दश संज्ञा भवन्ति। महेन्द्रेण परिगृहीता माहेन्द्री, वैश्वानरेण परिगृहीता वैश्वानरीत्येवमन्यास्वपीति ।
आत्मत्वाभिसम्बन्धादात्मा। तस्य सौम्यादप्रत्यक्षत्वे सति करणैः शब्दाधुपलब्ध्यनुमितैः श्रोत्रादिभिः समधिगमः क्रियते । वास्या- 20 दीनामिव करणानां कर्तृप्रयोज्यत्वदर्शनात्, शब्दादिषु प्रसिद्धया च प्रसाधकोऽनुमीयते ।
न शरीरेन्द्रियमनसां चैतन्यम् अज्ञत्वात् । न शरीरस्य चैतन्यम्, घटादिवद् भूतत्वात् कार्यत्वाच्च, मृते चासम्भवात् । नेन्द्रियाणाम्,
For Private And Personal Use Only