________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१३२
व्योमवती विशिष्टप्रत्ययाः पूर्वापरादयो न विशिष्टं निमित्तमन्तरेण भवन्ति । न चान्यन्निमित्तं क्षित्यादिरूप सम्भवतीत्यतो निमित्तान्तरासम्भवाद् यदत्र निमित्तं सा दिगिति विशेषणविशेष्यं न्यायः । सर्वोत्पत्तौ कारणत्वं कालवद् द्रष्टव्यम् ।
समवायित्वगुणवत्त्वप्रतिपादनार्थमाह * तस्यास्तु गुणाः संख्यापरिमाण5 पृथक्त्वसंयोगविभागाः इति । तत्र चातिदेशं करोति * कालवदेते सिद्धाः इति ।
तथा दिग्लिङ्गाविशेषाद् विशेषलिङ्गाभावाच्चैकत्वं दिशः सिद्धम् ।
ननु पूर्वापरादिप्रत्ययाः परस्परं विलक्षणस्यैव निमित्तस्य प्रतिपादका इति नानात्वमेव युक्तम् । न। सहकारिवैलक्षण्येनापि प्रत्ययवैलक्षण्योपपत्तिरित्युक्तन्यायात् । अतो द्रव्यत्वादेव संख्यायोगसिद्धौ नानात्वे प्रमाणाभावाद् एकत्वं सिद्धम् ।
10
तेनैकत्वेनानुविधानात् साहचर्यादेकपृथक्त्वञ्चेति । पूर्वापरादिप्रत्ययानां कारणे दिगाख्या' इति वाक्येन परममहत्त्वम् । तथा च पूर्वापरादिप्रत्ययाः सर्वत्र निमित्तं विना न सम्भवन्तीति दिशो व्यापकत्वात् परममहत्त्वम् । तथा "कारणपरत्वात् कारणापरत्वाच्च परत्वापरत्वे" (वै. सू. ७।२।२२) इति सूत्रेण संयोगः सिद्धः । तथा हि
कारणपरत्वं परत्वोत्पादको दिपिण्डसंयोगः । अपरत्वञ्चापरत्वोत्पादको विवक्षित इति __वक्ष्यामः परत्वपरीक्षायाम्। संयोगश्च कृतकत्वादवश्यं विनाशीत्याश्रयविनाशस्य
सर्वत्रासम्भवाद् विभागादपि नश्यतीति विभागः सिद्ध इत्यतिदेशार्थः । तथा गुणवत्त्वादनाश्रितत्वाच्च द्रव्यम् । समानासमानजातीयकारणासम्भवाच्चाकार्यत्वेन नित्यत्वञ्चेति द्रष्टव्यम्।
अथैकस्या दिशः प्राच्यादिव्यवहारः कथं स्यादित्याह * दिग्लिङ्गाविशेषादजसैकत्वेऽपि * इत्यादि । तत्र हि यद्यपि दिशो लिङ्गानामविशेषान्नानात्वाप्रसिद्धौ अञ्जसा मुख्यया वृत्त्यैकत्वं सिद्धम् । तथापि सवितुर्ये संयोगा लोकपालपरिगृहीतदिक्प्रदेशैः सहेति विभक्ति [ वि] परिणामः । यद् वा भगवतः सवितुर्ये संयोगास्ते केषामिति विवक्षायां सम्बन्धस्यापि विद्यमानत्वाद् युक्तव षष्ठी।
* लोकपालपरिगृहीतदिक्प्रदेशानाम् इति । अन्वर्था अनुगतार्थाः * प्राच्यादिभेदेन दश विधा: * दशप्रकाराः । * संज्ञाः कृताः * परमर्षिभिरिति । किमर्थमित्याह
For Private And Personal Use Only