________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१३१
दिग्वधर्म्यम् हदानी दिशोऽवसरप्राप्ताया लक्षणपरीक्षार्थं * दिक् पूर्वापरादिप्रत्ययलिङ्गा * इत्यादि प्रकरणम्। दिगिति लक्ष्यनिर्देशः । पूर्वापरादिप्रत्ययलिङ्गेति लक्षणम् । तथा पूर्वश्चापरश्च पूर्वापरौ, तावादिर्येषामिति तथोक्तास्ते च ते प्रत्ययाश्चेति, ते लिङ्गं यस्याः सा तथेति ।
सङ्ग्रहोक्तविवरणार्थमाह मूर्तमवधिं कृत्वा मूर्तेष्वेव द्रव्येषु विषयभूतेष्वेतस्मान्मूर्तद्रव्यादिदं मूर्तं पूर्वेण दक्षिणेनेत्यादिदश प्रत्यया यतो निमित्ताद् भवन्ति सा दिगिति । तथा च दिगितरेभ्यो भिद्यते, पूर्वापरादिप्रत्ययलिङ्गत्वात्, यस्तु न भिद्यते न चासावेवम्, यथा क्षित्यादिरिति । व्यवहारो वा साध्यः ।
ननु च पूर्वापरादिप्रत्ययाः परस्परापेक्षितया मूर्तेष्वेव भवन्तीत्यसिद्धं लक्षणाभिधानम् । नैतदेवम् । परस्परापेक्षितायामुभयाभावप्रसङ्गात् । तथाहि, यदि पूर्वमपेक्ष्य 10 अपरप्रत्ययः, अपरञ्चापेक्ष्य' पूर्वप्रत्यय इत्येकाभावेऽन्यतराभावादुमयाभावप्रसङ्गः। न च निनिमित्तः, कदाचिदुत्पन्नत्वादन्वयव्यतिरेकाभ्यां मूर्तद्रव्यस्य' व्यापारोपलब्धः, अगुल्यादिव्यपदेशाच्चालम्बनत्वम् । न च तस्याविशिष्टस्य प्रत्ययजन्मनि व्यापारः, सर्वत्राविशेषेण पूर्वादिप्रत्ययाविशेषप्रसङ्गात् ।
अथ मूर्तद्रव्यमेवावधिभूतं निमित्तमिति चेत्, न । तस्य सर्वप्रत्ययेष्वविशेषात्। 15 तथा हि तस्य निमित्ततायां यत्रैव पूर्वप्रत्ययस्तत्रैव दक्षिणादिप्रत्ययाः प्रसज्येरन्, अविशेषात् । नापि सङ्केत एव निमित्तम् । तस्य हि निमित्तं विना सर्वत्राप्रवृत्तेः। तथा ह्येकं निमित्तं विनैकत्र सङ्कोतित: 'पूर्व' शब्दो नार्थान्तरे प्रवर्तते। अथास्ति पूर्वादिशब्दानां सङ्केतप्रवृत्तेः कारणमेकं यत्सद्भावादर्थान्तरेऽपि प्रवृत्तिरिति चेत् । सा तर्हि दिगिति । अथाविशिष्टतया दिशो न विशिष्टप्रत्ययजनकत्वमिति चेत्, न । एकत्वेऽपि 20 विशिष्टसंयोगवशाद् विशिष्टप्रत्ययजनकत्वमित्यनन्तरं वक्ष्यामः।
अथ विकल्पज्ञानत्वान्निविषयाः पूर्वादिप्रत्यया वासनावशाद् भवन्तीति चेत्, तन्न । अबाध्यमानत्वात् । अबाध्यमानं ज्ञानं निविषयं न भवत्येव । शुक्लादिविज्ञानवद् विषयस्य चाङ्गुल्यादिव्यपदिश्यमानस्यान्वयव्यतिरेकाभ्यां व्यापारोपलव्धरित्युक्तम् । न च वासनैवात्र निमित्तम्, तस्या बोधव्यतिरेकेणासम्भवादिति पूर्वन्यायात् । अतो 25
For Private And Personal Use Only