SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra १३० व्योमवती # अथ कथं नानात्वमुपचर्यत इत्याह मणिवत् पाचकवद् वा * इति । यथा मणेः स्वरूपा परित्यागेनैवोपाधिभेदादुपचर्यते नानात्वं 'पीतो रक्तः' इति, तद्वदिहापि भिन्नक्रियोपाधिवशाद् वर्तमानादिभेद इति । यथा वा स्वरूपापरित्यागेनैव पुरुषस्य' नानाक्रियावशात् पाचकादिभेदस्तद्वदिहापीति । वास्तवे हि भेदे बाधकोपपत्तेः । 5 तथा हि यदि वर्तमानादेवस्तवो भेदो व्यापकत्वञ्च स्याद् एकस्य वस्तुनोऽनेककालसम्बन्धाद् अव्यपदेश्यता प्रसज्येत । न हि वर्तमानेन व्यपदेशोऽतीतानागताभ्यामपि सम्बन्धात् । नाप्यतीतेनेतराभ्यामपि सम्बन्धाद् अव्यापकत्वम् । तर्हि नानेकस्य पुरुषस्यैकस्मिन्नेव देशेऽतीतानागतवर्तमानप्रत्ययाः प्राप्नुवन्ति । ते तथा दृष्टाः । तथा चैकस्य विद्यमानक्रियोपलम्भादेकस्मिन्नेव देशे वर्तमानप्रत्ययः । तत्रैवान्यस्य क्रियोपरमादतीत प्रत्ययः । अन्यस्य चोत्पद्यमानक्रियोपलम्भादनागत इति । क्रियावशादेव नानाप्रत्ययजनकत्वं न पुनर्वास्तवोऽस्य भेद इति स्थितम् । 10 15 20 www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दिक पूर्वापरादिप्रत्ययलिङ्गा । मूर्त्तद्रव्यमवधिं कृत्वा मूर्तेष्वेव द्रव्येष्वेतस्मादिदं पूर्वेण दक्षिणेन पश्चिमेनोत्तरेण पूर्वदक्षिणेन दक्षिणापरेण अपरोत्तरेण उत्तरपूर्वेण चाधस्तादुपरिष्टाच्चेति दश प्रत्यया यतो भवन्ति सा दिगिति । गुणाः तस्यास्तु काल देते सिद्धाः । दिग् लिङ्गा विशेषादञ्ज सैकत्वेऽपि दिशा, परमर्षिभिः श्रुतिस्मृतिलोकव्यवहारार्थं मेरुं प्रदक्षिणमावर्तमानस्य भगवतः सवितुर्ये संयोगविशेषास्तेषां लोकपालपरिगृहीत दिक् प्रदेशानामन्वर्थाः प्राच्यादिमेदेन दशविधाः संज्ञाः कृताः । संख्यापरिमाणपृथक्त्वसंयोगविभागाः । ततो भक्त्या दश दिशः सिद्धाः । तासामेव देवतापरिग्रहात् पुनर्दश संज्ञा भवन्ति । माहेन्द्री, वैश्वानरी, याम्या, नैर्ऋती, वारुणी, वायव्या, कौवेरी, ऐशानी, ब्राह्मी, नागी चेति । For Private And Personal Use Only
SR No.020943
Book TitleVyomvati Part 01
Original Sutra AuthorN/A
AuthorVyomshivacharya, Gaurinath Shastri
PublisherSampurnanand Sanskrut Vishvavidyalaya Varanasi
Publication Year
Total Pages226
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy